न्यायकोशः /24
This page has not been fully proofread.
द्वितीयावृत्तौ विद्यावृद्धिप्रशंसा ।
इह किलानादिसिद्धाव्याहतपरिवर्तनशालिनि कालचक्रे कियन्तं समयं
नानाविध सहृदयनृपतिप्रदत्तहस्तावलम्बतयोत्तरोत्तरमधिकाधिकप्रोछुसनेन प
रिपूर्ण वृद्धिसुखमनुभूय पुनस्तादृशसहृदयवसुधाधिपतिविलयवशेन क्वचिदप्या -
लम्बनमपश्यन्ती कतिचिद्दिनानि निरुत्साहतया केवलं प्रियमाणप्राणा
विद्याविलासिनी यावत्पतत्प्रकर्षदशामनुभवन्ती लज्जावनतमुखी कालं
यापयति तावन्निरुपधिकरुणाशालिचक्रवर्लाङ्गभूपालप्रदत्तकरावलम्बना किं-
चिदुन्नमय्य वदनमितस्ततो दृशं संचारयन्ती तन्निवेशिता अनेकविधा
'अधिजिगांसुसुमल्यन्तेवासिनिवहालंकृताः पाठशाला ददर्श । तत्र चानेक-
विधश्रुतिस्मृतीतिहासपुराणव्याकरणन्यायतर्कमीमांसासाहित्य शिल्पाद्यनेकविध
'शास्त्राध्यय नाध्यापन परिपाटीपर्यालोचनयाऽवश्यंभाविनमात्मोदयं निर्वर्ण्य ता-
स्वेवानवरतं क्रीडासुखमनुबभूव । ततश्च साऽतिदुरवगाहनानाविधनिबन्धा-
म्बुधिविलोडनं न पदपदार्थपरिज्ञानरूपतरणिसाधनमन्तरा संपद्येतेत्यनुविचिन्त्य
तत्संपादनायोहापोहकुशलमतीन्विदुषः प्रैरिरत् । तया प्रेरिताश्च ते यतमानाः
सन्तोऽखिलशब्द-शब्दार्थपरिज्ञानसाधनीभूतव्याकरणन्यायादिशास्त्रेषु सुख-
प्रवेशाय समासव्याससहितान्विविधान्निबन्धानकोशांश्च रचयांचक्रुः इति ।
विद्याव्यसनतत्परो
महामहोपाध्यायो - भीमाचार्यः ।