2023-10-22 11:28:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१८३
 
<उरूक:>
१ उल्लूकनामा
 
पक्षिविशेषः । २ मेदखिनी वपा । उरु वि-

स्तीर्णमूको मेदो यत्र इत्यवयवार्थ: ( जै० न्या० अ० ९ पा० ४

अधि० ४ ) ।
 

 
<
उष्णत्वम्>
स्पर्शनिष्ठो जातिविशेषः । यथा स्पर्श उष्णस्तेजसस्तु ( भा०प०

श्लो ४२ ) इत्यादौ । उष्णस्पर्शवत्तेजः (मु० १ पृ० ७७) इत्यादौ

च। सूतके मृतके चैव न स्नायादुष्णवारिणा इत्यादौ उष्णशब्दस्य

उष्णस्पर्शवदित्यर्थो बोध्यः ।
 
5
 

 
<ऊ>
 
<
ऊर्ध्वा>
(दिक्) अदृष्टबदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयो दिक्

(बै० उ० २१ २११० ) । यथा ऊर्ध्व गत इत्यादौ । एवं च इन्द्राग्नि-

यमनिरृतिवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दशदिश इति

व्यपदेशान्तरम् प्राच्यादिव्यपदेशात् (वै० उ० २१ २ । १० ) ।

 
<
ऊष्मा - >
१ उष्णस्पर्श: ( राम० १ पृ० ७०) । यथा चक्षुरूष्मादिसंततेः

(मु० १ प० ६८) इत्यादौ । २ तेजोद्रव्यस्य सूक्ष्मावयवः (भा ० )

( वाच० ) । यथा यथाग्नेर्धूम उदयते एवमेषामूष्मोदयते ( शत०

ब्रा० १/६/२।१२।५ ) इत्यादौ । ३ श ष स ह एते वर्णा ऊष्माण इति
 
FE
 

शाब्दिका आहुः (वाच० ) ।
 

 
<
ऊहः - >
१ तर्कः । स च [क परीक्षणम् । ख अनुमानम् । यथा

ऊह: ( जै० सू० ११२/५२ ) इत्यादौ । न पिता वर्धते न माता

इत्युक्ते अन्ये वर्धन्त इति गम्यते ( शाबरभा० १/२/५२ ) । [ग]

अध्याहारः । घ कल्पनम् । अन्वययोग्यविभक्तयादिकल्पनमित्यर्थः ।
]

यथा पार्वणे सौम्यास इति बहुवचनसमन्वितमपि एकोद्दिष्टे अनन्वित

त्वात् सौम्यः इत्येकवचनान्ततया कल्प्यते । यथा वा अग्नये जुष्टं नि

इत्यस्य सौर्ये चरौ सूर्याय जुष्टं निर्वपामि इत्येवं पदान्तरप्रक्षेप ऊहः

(जै० न्या० अ० २ पा० १ अधि० ९) । [ङ ] प्राकृतस्थान-

पतितपदार्थान्तर कार्यतः । ऊहः प्रयोगो विकृत ऊपमानतयोदितः ॥
 
-