This page has not been fully proofread.

न्यायकोशः ।
 
१८३
 
उरूक:– १ उल्लूकनामा
 
पक्षिविशेषः । २ मेदखिनी वपा । उरु वि-
स्तीर्णमूको मेदो यत्र इत्यवयवार्थ: ( जै० न्या० अ० ९ पा० ४
अधि० ४ ) ।
 
उष्णत्वम् – स्पर्शनिष्ठो जातिविशेषः । यथा स्पर्श उष्णस्तेजसस्तु ( भा०प०
श्लो ४२ ) इत्यादौ । उष्णस्पर्शवत्तेजः (मु० १ पृ० ७७) इत्यादौ
च। सूतके मृतके चैव न स्नायादुष्णवारिणा इत्यादौ उष्णशब्दस्य
उष्णस्पर्शवदित्यर्थो बोध्यः ।
 
5
 
ऊर्ध्वा – (दिक्) अदृष्टबदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयो दिक्
(बै० उ० २१ २११० ) । यथा ऊर्ध्व गत इत्यादौ । एवं च इन्द्राग्नि-
यमनिरृतिवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दशदिश इति
व्यपदेशान्तरम् प्राच्यादिव्यपदेशात् (वै० उ० २१ २ । १० ) ।
ऊष्मा - १ उष्णस्पर्श: ( राम० १ पृ० ७०) । यथा चक्षुरूष्मादिसंततेः
(मु० १ प० ६८) इत्यादौ । २ तेजोद्रव्यस्य सूक्ष्मावयवः (भा ० )
( वाच० ) । यथा यथाग्नेर्धूम उदयते एवमेषामूष्मोदयते ( शत०
ब्रा० १/६/२।१२।५ ) इत्यादौ । ३ श ष स ह एते वर्णा ऊष्माण इति
 
FE
 
शाब्दिका आहुः (वाच० ) ।
 
ऊहः - १ तर्कः । स च [क परीक्षणम् । ख अनुमानम् । यथा
ऊह: ( जै० सू० ११२/५२ ) इत्यादौ । न पिता वर्धते न माता
इत्युक्ते अन्ये वर्धन्त इति गम्यते ( शाबरभा० १/२/५२ ) । [ग]
अध्याहारः । घ कल्पनम् । अन्वययोग्यविभक्तयादिकल्पनमित्यर्थः ।
]
यथा पार्वणे सौम्यास इति बहुवचनसमन्वितमपि एकोद्दिष्टे अनन्वित
• त्वात् सौम्यः इत्येकवचनान्ततया कल्प्यते । यथा वा अग्नये जुष्टं नि
इत्यस्य सौर्ये चरौ सूर्याय जुष्टं निर्वपामि इत्येवं पदान्तरप्रक्षेप ऊहः
(जै० न्या० अ० २ पा० १ अधि० ९) । [ङ ] प्राकृतस्थान-
• पतितपदार्थान्तर कार्यतः । ऊहः प्रयोगो विकृत ऊपमानतयोदितः ॥
 
-