This page has not been fully proofread.

१८२
 
न्यायकोशः ।
 
मिसंधान पूर्वकस्वत्व प्रागभावासमानकालीन
स्वत्वाविषयकेच्छेति व्यवहारज्ञा
आहुः (वाच० )। स्वत्वध्वंसमात्रजन कुस्त्याग इति मैथिला आहुः ।
यथा धनस्योपेक्षा इत्यादौ ( श० प्र० श्लो० ७० टी० पृ० ८५ ) ।
 
वक्तव्ये
व्यवस्थाप्यते ( राम०
 

 

 
उपोद्धातः—( संगतिः ) [ क ] प्रकृतोपपादकत्वम् ( दि० २ ) । [
प्रकृतोपसाधकत्वम् । यथा परामर्शजन्यज्ञानत्वरूपेनुमितिलक्षणे
विशिष्टपरामर्शस्यानुमितिहेतुत्वमुपोद्वातसंगत्या
पृ० १३४ ) । यथा वा प्रमाकरणरूपे प्रमाणे निरूपणीये सत्युपो.
द्धातसंगत्या करणनिरूपणम् (वाक्य० १ पृ० १० ) । [ ग ] चिन्ता
प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः ( सर्व० सं० पृ० २६७ जैमि०)
(भवा० ) ( जग ० ) । तदर्थश्च प्रकृतसिद्ध्यनुकूल चिन्ताकालावच्छेदेन
प्रकृतानुकूलत्वम् । चिंता च वक्तर्माद्या । अत्रानुकूलत्वं
क्वचिद्घटकत्वम् कचिज्ज्ञापकत्वम् । तत्र घटकत्वं यथा व्याप्तिविशिष्टपक्ष-
धर्मताज्ञानजन्यज्ञ।नमित्यत्राज्ञातव्याप्तिकरय व्याप्तिपदवाच्यत्वेन का
व्याप्तिः इत्याकारिकायां जिज्ञासायां व्याप्तिनिरूपणम् । ज्ञापकत्वं यथा
(विशिष्टज्ञानस्यानुमितिहेतुत्वे किं ज्ञापकम् इत्याकाङ्क्षायां परामर्श
हेतुत्वव्यवस्थापनम् ( भवा० ) । [व] निर्दिष्टोपपादकत्वम् (जग०
[ ङ ] शाब्दिकास्तु प्रकृतसिद्व्यनुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूल
• त्वम् इत्याहुः (वै० सा० द० ) । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वा-
दिरूपं यथायथं ग्राह्यम् । तत्रावच्छेदकांशः चिन्ताकालपर्यन्तः स्वरूप-
सन् इतरांशश्च ज्ञातः सन्नुपयोगी भवति इति ज्ञेयम् ( वै० सा० द० ) ।
 
;)/
 

 
उभयत्वम्-[क] उभयव्यवहारविषयतावच्छेदको धर्मः ( ग० सिद्धा० ) ।
 
यथा घटपटोभयमित्यादौ घटपटोभयपर्याप्तमुभयत्वम् । [ ख ]
 
बुद्धिविशेषविषयत्वमिति केचिदाहुः । अयं च धर्मो व्यासज्यवृत्तिर्भवतीति
 
विज्ञेयम् । एवं बहुत्वादयोपि धर्माः स्वयमूह्याः ।
 
उमामाहेश्वरी – ( तिथि: ) अष्टमी नवमीविद्धा नवमी चाष्टमीयुता ।
अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ (पु० चि० पृ० १०६)/
 
अपेक्षा