2023-10-22 11:23:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१८०
 
न्यायकोशः ।
 
भवति च साधनस्य वह्नेः अव्यापकम् । यत्र यत्र वह्निस्तत्रार्द्रेन्धनम् इति
 
\
1 नियमासत्त्वात् । तप्तायः पिण्डे बह्निसत्त्वेप्यान्धनाभावादिति ( त०

कौ
० २ पृ० १५ ) । [च ] यदभावेन यद्वदन्यत्वेन वा साधनवति

साध्याभाव उन्नीयते स उपाधिरिति नव्या वदन्ति ( दि० पृ० २१७ ) ।

[छ ] अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र

गग हेतावुपाधिरित्याहुः (चि० २ पृ० २८) ( दीधि० २ १० १०२ ) ।

स च धर्मः यस्याभावात् पक्षे साध्यसाधनसंबन्धाभावः । यथा आर्द्रेन्ध-

नवत्त्वम् । व्यावर्तते हि तद्ध्यावृत्त्या धूमवत्त्वमयोगोलके । एवं भाव-

व्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः संबन्धो निवर्तमानः पक्षधर्मताबला -

दनित्यत्वाभावमादाय सिध्यति । यथा वा वायावुद्भूतरूपवत्त्वं निवर्तमानं

बहिर्दव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति

इत्यादि (चि० २ पृ० २८ ) । [ज ] अव्याप्तसाधनो यः साध्य-

उपाधिश्चतुर्विधः । केवलसाध्यव्यापकः पक्षधर्मावच्छिन्नसाध्यव्यापकः

समव्याप्तिरुच्यते स उपाधि: ( सर्व० सं० पृ० ११ बौ० ) ।

साधनावच्छिन्नसाध्यव्यापकः उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति ।

तत्राद्यः धूमसाध्यकवह्निहेतुकस्थल आर्द्रेन्धनसंयोगः । द्वितीयः वायुः

प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्न प्रत्यक्षत्वव्यापक-

मुद्भूतरूपवत्त्वमुपाधिः । तृतीयः ध्वंसो विनाशी जन्यत्वादित्यत्र

जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् । स श्यामो मित्रातनयत्वादि

त्यत्र शाकपाकजवं वा । चतुर्थस्तु प्रागभावो विनाशी प्रमेयत्वा दिव्यत्र
 

 

जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् ( त० दी० २ पृ० २६ ) /

घटरूपं प्रत्यक्षं प्रमेयत्वादित्यादावुद्भूतरूपं वा उपाधि: ( म० प्र०

पृ० ३० ) ( न्या० म० २ पृ० २३ ) । पुनरप्युपाधिर्द्विविधः ।

निश्चितः संदिग्धश्च । तत्र साध्यव्यापकत्वेन साधनाव्यापकत्वेन

निश्चितो व्यभिचार निश्चयाधायकत्वेन निश्चितोपाधिः । यथा वह्निमत्त्वेन

घूमवत्त्वे साध्य आर्द्रेन्धनप्रभववह्निमत्त्वम् । यत्र साधनाव्यापकत्वसंदे

साभ्यव्यापकत्वसंशयो वा तदुभयसंदेहो वा तत्र हेतौ साध्यव्यभिचारसंश-