2023-10-22 11:22:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१७९
 
अतस्तद्वदार्द्रेन्धनमुपाधिः
 
धिकरणनिष्ठा यावन्तो धर्मा आर्द्रेन्धनत्वावच्छिन्न समानाधिकरणा भवन्ति ।

अतस्तद्वदार्द्रेन्धनमुपाधिः
( न्या० म० २ पृ० २३) । यथा वा
११

( २ ) वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः ।

भवति हि उद्भूतरूपत्वावच्छिन्नानाधिकरणं यत् प्रत्यक्षस्पर्शाश्रयत्वा-

वच्छिन्नम् वायुः तन्निष्ठो धर्मः बहिर्द्रव्यत्वम् तदवच्छिन्नं साध्यम्

प्रत्यक्षत्वम् । तदधिकरणं यत् घटपटाद्येव तन्निष्ठा यावन्तो धर्मा

उद्भूतरूपत्वावच्छिन्नसमानाधिकरणा भवन्ति । अत उद्भूतरूपवत्त्व-

मुपाधि: ( न्या० म० २ पृ० २३ ) । यथा वा ( ३ ) स श्यामो

मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः । भवति हि शाकपाक-

जत्वत्वावच्छिन्नानधिकरणं यन्मित्रातनयत्ववत् अन्यः अश्यामो मित्रा-

तनयः तन्निष्ठं यत् मित्रातनयत्वम् तदवच्छिन्नं श्यामत्वम् । तदधिकरणं

यत् श्यामो मित्रातनयः तन्निष्ठा यावन्तो धर्माः शाकपाकजत्वत्वा-

वच्छिन्न समानाधिकरणा भवन्ति । अतस्तद्वच्छाकपाकजत्वमुपाधिः ।

( न्या० म० २ पृ० २३ ) । यथा वा ( ४ ) घटरूपं प्रत्यक्षं प्रमेयत्वा-

आदित्यादौ उद्भूतरूपमुपाधिः । भवति हि उद्भूतरूपत्वावच्छिन्नानधिकरणं

यत् प्रमेयत्ववत् चक्षुरादि तन्निष्ठो यत्किंचिद्धर्मः बहिर्द्रव्यत्वम् उदासीन-

धर्म: तदवच्छिन्नं प्रत्यक्षत्वम् तदधिकरणं यत् घटपटादि तन्निष्ठा

यावन्तो धर्मा उद्भूतरूपत्वावच्छिन्न समानाधिकरणा भवन्ति । अत
 

उद्भूतरूपमुपाधि: ( म० प्र० २ पृ० २९-३०) । एवं च वक्ष्य-

माणचतुर्विध विभागविभक्तस्योपाधिचतुष्टयस्य यथाक्रममुदाहरणचतुष्ट-

मेतदिति विज्ञेयम् । [ङ ] साध्यव्यापकत्वे सति साधनाव्यापक उपा-

दिनचर्या ( न्या० म० २ पृ० २१ ) ( त० कौ० २

पृ० १५ ) ( त० सं० ) ( दीधि ० २ पृ० १०५ ) । यो यध्यापकत्वे

सति यदव्यापकः स तत्रोपाधिरिति निर्गलितोर्थ: (दीधि० २ पृ० ९२) ।

यस्य यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वं च स

तत्साध्यकतद्धेतावुपाधिरित्यर्थः । भवति च तत् आर्द्रेन्धनम् साध्यस्य

धूमस्य व्यापकम् । यत्र यत्र धूमस्तत्रार्द्वन्धनम् इति नियमसत्त्वात् ।