This page has not been fully proofread.

१७८
 
न्यायकोशः ।
 
सामान्यव्याप्तेः यत् आर्द्रेन्धनव्यभिचारि तत् धूमव्यभिचारि यथा वटः
• इति विशेषव्याप्तेरेवोपाघिव्यभिचारेण शुद्धसाध्यव्यभिचारानुमानम् ।
यद्वा स्वव्यतिरेकेण साधनवति साध्यव्यतिरेकोन्नायकत्वमुपाघेर्दूषकता -
बीजम् । धूमसाध्यकवह्निहेतुकार्द्रेन्धनायुपाधिना वह्निमति क्वचित्
स्वव्यतिरेकेण धूमव्यतिरेकानुमानात् । यत् आर्द्रेन्धनाभाववत् तत् धूमा-
भाववत् यथा जलम् इति व्याप्तेः । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यक
त्वात् ( म०प्र० २ ० ३० ३१ ) ( त० प्र० २ ) । [ग]
स्वानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वे सति साध •
" नाव्यापकः । अत्र स्वं उपाधित्वेनाभिमतं ग्राह्यम् । उपाध्यनधिकरणं
यत् साधनाधिकरणम् तद्वृत्तिर्धर्मः क्वचित् साधनं मित्रातनयत्वादि ।
क्वचित् पक्षधर्मो बहिर्द्रव्यत्वादिः । क्वचिदुदासीनोपि । यथा घटरूपं प्रत्यक्षं
मेयत्वात् इत्यादौ बहिर्द्रव्यत्वमेव । तदवच्छिन्न प्रत्यक्षत्वव्यापकत्वं
चोद्भूतरूपोपाधाविति नाव्याप्तिः । इत्थं चोपाघेश्चतुर्विधत्वमिति मन्त-
व्यम् । शुद्धसाध्यव्यापकार्द्वन्धनादौ तु केवलं लक्षणसमन्वयाय स्वान-
तद-
धिकरणसाधनाधिकरणतप्तायः पिण्डवृत्तिधर्मो द्रव्यत्वादिर्ग्राह्यः ।
वच्छिन्नधूमव्यापकत्वस्य तत्र सत्त्वात् इति बोध्यम् ( म० प्र०
पृ० २९ - ३० ) ( त० प्र० २ ) । ननु द्रव्यं जातेरित्यादौ विशिष्ट-
सत्त्वात्मकोपाधावव्याप्तिः । विशिष्टसत्तायाः शुद्धसत्तानतिरेकेण तदन-

 
धिकरणजात्यधिकरणाप्रसिद्धेः । अतो
 
लक्षणान्तरमन्यत्रोक्तम् ।
 

 
तथाहि । [घ ] स्वावच्छिन्नान धिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन
• साध्यव्यापकतावच्छेदकवत्त्वे सति साधनाव्यापकः ( न्या० म०
पृ० २२ ) ( दीधि० २ पृ० १०५) अन्वयश्चास्य स्वावच्छिन्नान-
धिकरणं यत् साधनाधिकरणम् तद्वृत्तिर्यो धर्मः तदवच्छिन्नं यत्साध्यम
तद्व्यापकतेत्यादि । अत्र स्वं उपाधितावच्छेदकत्वेनाभिमतं आन्धन-
वादि ग्राह्यम् । यथा ( १ ) धूमवान्वरित्या दावार्द्रेन्धनम् धूमसामग्र्या
• दिकम् उपाधिः । भवति हि आर्द्रेन्धनत्वावच्छिन्नानधिकरणं यद्वह्निमत्
अयोगोलकम् तन्निष्ठो यत्किंचिद्धर्मः द्रव्यत्वम् तदवच्छिन्नो धूमः (