2023-10-22 11:18:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
पृ० २३१) । ३ स्वेष्टसाधनताप्रकारकं ज्ञानम् (प० च० ) ।

सुखसाधनत्वज्ञानं वोपादानम् । यथा स्रक्चन्दनवनितादिकं मत्सुख-

साधनम् इति ज्ञानम् ( सि० च० १ पृ० २ ) । ४ आध्यात्मिकतु-

ष्टिविशेष इति सांख्याः (वाच० ) । ५ विज्ञानवादिनो बौद्धास्तु

असहकृतं कारणमुपादानम् । यथा उत्तरोत्तर विज्ञानव्यक्तौ पूर्वपूर्वविज्ञान•

व्यक्तिरुपादानम् इति वदन्ति ( राम० आत्म० पृ० १००) ।

६ अनुसंघीयमानशब्दसहकृतानुपपत्तिज्ञानम् ( ग० नियोज्यान्वयग्रन्थे ।

प्राभाकरास्तु अनुपपत्तिज्ञानम् । यथा औपादानिको बोधः इत्यादौ उपादान-

शब्दस्यार्थः इत्याहुः ( त० प्र० ख० ४ पृ० ११२ ) । अत्रायमर्थः ।

अपूर्वे कृतिसाध्यत्वं यागे कृतिसाध्यत्वं विनानुपपन्नम् इत्यनुपपत्तिज्ञान-

सहकारेण स्वर्गसाधनं स्वर्गकामनियोज्यको यागः स्वर्गकामकृतिसाध्यः

इत्यौपादानिको यागविशेष्यकः पञ्चमो बोधः स एव च प्रवर्तकः

( त० प्र० ख० पृ० ११२) । ७ गन्धपुष्पादिपूजा साधनसंपादनात्मक

उपासनविशेष: (सर्व० सं० पृ० ११७ रामानु० ) । ८ अननुष्ठित

स्यानुष्ठानमुपादानम् ( जे० न्या० मा० २/३ अधि० १३) ।
 

 
<
उपादेयत्वम्>
अनुष्ठीयमानताकारः (जै० न्या० मा० १४ अधि० ६) ।

 
<
उपादेयम्>
१ समवेतवदस्यार्थोनुसंधेयः । यथा यद्रव्यं यद्द्रव्यध्वंसजन्यम्

कर्म ( ग्राह्यं वस्तु ) । यथा हेयोपादेयरहित आत्मा इत्यादा विति

तत् तदुपादानोपादेयम् (मु० १ पृ० ६५) इत्यादौ । २ ग्रहण-

काव्यज्ञा वेदान्तिनश्चाहुः ।
 

 

 
<
उपाधिः -- >
१ निमित्तम् । तदर्थश्च [क] प्रयोजकम् ( त० भा० ) //

[ख कारणम् । यथा वायोः प्राणापानादिसंज्ञायां हृदादिस्थानं मुख

निर्गमादिक्रिया चोपाधि: ( मु० ११० ८५ ) । २ धर्ममात्रम् । २

धर्मः कचिज्जात्यादिः । कचित्तद्भिन्नोपि भवति । यथा पदार्थविभाजको

पाधिमत्त्वमित्यादौ । पदार्थविभाजकोपाधयस्तावत् द्रव्यत्वगुणत्व कर्मत्व-

सामान्यत्व विशेषत्व समवायत्व अभावत्वरूपाः सन्ति । तत्र द्रव्यस्वादयो।