This page has not been fully proofread.

द्वितीयावृत्तौ प्रस्तावना
 
११
 
.
 
सर्वशास्त्रोपकारकत्वेनोक्तयोर्मध्ये प्रथमोद्दिष्टे तर्कशास्त्रे (न्यायेsपि ) सुख-
प्रवेशसाधनभूतो निबन्धोऽद्यावधि न केनापि विदुषा विहितः । अतः
मुम्बापुरीस्थायामेल्फिन्स्टन्कालेजाभिधायां महापाठशालायां न्यायाद्यनेक-
दर्शनाध्यापनेऽधिकृतेन कर्णाटदेशीयेन झळकीग्रामनिवासिना श्रीमद्राम-
भट्टपादपुत्रेण सरस्वत्यम्बागर्भजेन आङ्गभूपालप्रदत्त 'महामहोपाध्याय' पदा-
कितेन भट्ट-भीमाचार्येण मयातिगहनतरपदार्थरत्न पुञ्ज परिपूर्णतर्कमञ्जूषो-
कुञ्चभूयायकोशाभिधो ग्रन्थो व्यरचि । अत्र च बहुविध-
शास्त्रीय ग्रन्थव्युत्पादने समुपयुज्यमानाः प्रायेण सर्वे न्यायवैशेषिकशास्त्रीयाः
पारिभाषिकाः, व्यवहारे समुपयुज्यमाना व्यावहारिकाश्च शब्दा गौतम-
कणादसूत्र-तत्त्वचिन्तामणि-गदाधरीप्रभृतिग्रन्थेभ्य उद्धृत्याकारादिवर्णक्रमेण
विन्यस्ताः । तेषामर्थश्च संगृह्य सुगमरीत्या परिष्कृत्य च प्रदर्शितः । तत्र
लक्षणान्युदाहरणानि चोदाहृतानि । तत्र च यानि लक्षणोदाहरणानि गौतम-
सूत्रादिग्रन्थेषूपलब्धानि तानि तत्रत्यान्येवेह संगृहीतानि । यदीयानि च
लक्षणोदाहरणानि तत्र नोपलब्धानि तदीयानि शास्त्रानुरोधीनि नूतनानि
तानि यथामति स्वयं विरच्येहोदाहृतानि ।
 

 
सर्वशास्त्रोपकारकयोर्दुर्गमतमयोर्न्यायवैशेषिकशास्त्रयोः सुखेन मनःप्रवेश -
साधनमेनं कोशं विधाय परमकारुणिकस्य रमाब्रह्माद्यभिवन्दितपादारविन्दस्य
श्रीमदिन्दिरारमणस्य चरणयोर्विकस्वर प्रसूनाञ्जलितयाऽहमर्पये । अत्र च
शास्त्रदौर्गभ्याट्टग्दोषाद्वा यत्किंचिदसमञ्जसमापतेत्तदा तत्संशोध्य परिपूरयन्तु
निर्मत्सरा दयालवो विद्वांसः इति प्रार्थयेऽहम् ।
 
महामहोपाध्यायो भट्ट-भीमाचार्यः ।