2023-10-22 11:17:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१७५
 
नामत्वात् नाम्नामेव समासविधानात्प्रादेः समास उपपद्यते ( त० प्र०

ख० ४ पृ० ७० ) इत्याहुः । वैयाकरणास्तु सर्वेषां द्योतकत्वमेवाहुः ।

२ उत्पात इति काव्यज्ञाः ।
 
-
 
उपसर्जनम् –

 
<उपसर्जनम्>
१ गौणम् । २ अप्रधानम् । यथा धनवान्देवदत्त इत्यादौ

विशेषणीभूतं धनमुपसर्जनम् । अत्रोपसर्जनत्वं च वृत्तिजन्यबोधीय-

प्रकारताश्रयत्वम् । वृत्तिशब्देनात्र वैयाकरणसंमताः कृत्तद्धितसमासैक-

शेषसनाद्यन्ताः पञ्च वृत्तयो गृह्यन्ते । ३ शाब्दिकास्तु विग्रहवाक्ये यनि-

यतविभक्तिकं तदुपसर्जनसंज्ञम् स्वार्थविशिष्टार्थान्तरबोधकमुपसर्जनम् इति

च वदन्ति ।
 
-
 

 
<
उपस्थितिः - >
१ बुद्धिवदस्यार्थोनुसंधेयः । २ स्मृतिरित्याधुनिका वदन्ति ।

उपहारः - नियमः । स च षडङ्गः । तदुक्तं सूत्रकारेण हसितगीतनृत्य-

ढुड्डुक्कारनमस्कार जप्यषडङ्गोपहारेणोपतिष्ठेतेति ( सर्व० सं० पृ० १६९

नकुली० ) ।
 

 
<
उपहितत्वम् - >
१ उपधायकत्ववदस्यार्थोनुसंधेयः । २ मायावादिनस्तु

उपाधिसंगतत्वम् । उपाध्युपलक्षितत्वं वोपहितत्वम् । यथा अन्तःकरणोप-

हितं चैतन्यं जीव: अज्ञानोपहितं चैतन्यमीश्वरः इत्यादा वित्याहुः (वाच ० ) ।

 
<
उपहिति:>
अङ्गारेषु कपालस्थापनम् (जै० न्या० मा०
 
१०/१
 

अधि० ११ ) ।
 

 
<
उपाकरणम्>
स्तोत्रं प्रति प्रेरणम् । यथा उपावर्तध्वमिति मन्त्रबर्हिभ्यां

स्तोत्रमुपाकरोति ( जै० न्या० मा० १० ४ अघि० २ ) ।

 
<
उपादानत्वम् - >
( कारणत्वम् ) मायावादिमते [१] जगदध्यासाधिष्ठान-

त्वम् । यथा ब्रह्मणो जगदुपादानत्वम् । [२] जगदाकारेण परिणा-

मित्वम् । यथा मायाया जगदुपादानत्वम् (वे० प० पृ० ६५) ।

उपादानम् - १ समवायिकारणम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ

जनकं भवेत् ( भा० प० श्लो० १५३) इत्यादौ इति प्राचीननैया-
•●

यिकाः । २ अधिष्ठानमात्रम् । यथा यागादेर्हनि: शब्दस्य मृदङ्गादिः
प्राणसंचारादेच प्राणवहनाड्यादिरुपादानमिति नवीननैयायिकाः (दि०
•यिकाः । २ अधिष्ठानमात्रम् । यथा यागादेर्हनि: शब्दस्य मृदङ्गादिः