This page has not been fully proofread.

न्यायकोशः ।
 
१७५
 
नामत्वात् नाम्नामेव समासविधानात्प्रादेः समास उपपद्यते ( त० प्र०
ख० ४ पृ० ७० ) इत्याहुः । वैयाकरणास्तु सर्वेषां द्योतकत्वमेवाहुः ।
२ उत्पात इति काव्यज्ञाः ।
 
-
 
उपसर्जनम् – १ गौणम् । २ अप्रधानम् । यथा धनवान्देवदत्त इत्यादौ
विशेषणीभूतं धनमुपसर्जनम् । अत्रोपसर्जनत्वं च वृत्तिजन्यबोधीय-
प्रकारताश्रयत्वम् । वृत्तिशब्देनात्र वैयाकरणसंमताः कृत्तद्धितसमासैक-
शेषसनाद्यन्ताः पञ्च वृत्तयो गृह्यन्ते । ३ शाब्दिकास्तु विग्रहवाक्ये यनि-
यतविभक्तिकं तदुपसर्जनसंज्ञम् स्वार्थविशिष्टार्थान्तरबोधकमुपसर्जनम् इति
च वदन्ति ।
 
-
 
उपस्थितिः - १ बुद्धिवदस्यार्थोनुसंधेयः । २ स्मृतिरित्याधुनिका वदन्ति ।
उपहारः - नियमः । स च षडङ्गः । तदुक्तं सूत्रकारेण हसितगीतनृत्य-
ढुड्डुक्कारनमस्कार जप्यषडङ्गोपहारेणोपतिष्ठेतेति ( सर्व० सं० पृ० १६९
नकुली० ) ।
 
उपहितत्वम् - १ उपधायकत्ववदस्यार्थोनुसंधेयः । २ मायावादिनस्तु
उपाधिसंगतत्वम् । उपाध्युपलक्षितत्वं वोपहितत्वम् । यथा अन्तःकरणोप-
• हितं चैतन्यं जीव: अज्ञानोपहितं चैतन्यमीश्वरः इत्यादा वित्याहुः (वाच ० ) ।
उपहिति: – अङ्गारेषु कपालस्थापनम् (जै० न्या० मा०
 
१०/१
 
अधि० ११ ) ।
 
उपाकरणम् – स्तोत्रं प्रति प्रेरणम् । यथा उपावर्तध्वमिति मन्त्रबर्हिभ्यां
• स्तोत्रमुपाकरोति ( जै० न्या० मा० १० ४ अघि० २ ) ।
उपादानत्वम् - ( कारणत्वम् ) मायावादिमते [१] जगदध्यासाधिष्ठान-
त्वम् । यथा ब्रह्मणो जगदुपादानत्वम् । [२] जगदाकारेण परिणा-
मित्वम् । यथा मायाया जगदुपादानत्वम् (वे० प० पृ० ६५) ।
उपादानम् - १ समवायिकारणम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ
जनकं भवेत् ( भा० प० श्लो० १५३) इत्यादौ इति प्राचीननैया-
•● प्राणसंचारादेच प्राणवहनाड्यादिरुपादानमिति नवीननैयायिकाः (दि०
•यिकाः । २ अधिष्ठानमात्रम् । यथा यागादेर्हनि: शब्दस्य मृदङ्गादिः