2023-10-22 11:14:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१७४
 
न्यायकोशः ।
 
यथा उपनयलक्षणे उदाहरणापेक्षस्तथेत्युपसंहारः (गौ० ११ १२ १३८)

इत्यत्रोपसंहारः । ३ निश्चयः ( दीधि ० २ ) । ४ विस्तरेण निरूपितत्य

पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम् । यथा तदेतन्त्रिविधकारण-

मध्ये यदसाधारणं कारणं तदेव करणम् ( त० सं० ) इति करण -

लक्षणस्योपसंहारः ( त० दी० १ पृ० १७ ) । ५ ग्रन्थतात्पर्यावधा।

रकलिङ्गविशेषः । यथा उपक्रमोपसंहारौ····हेतुस्तात्पर्यनिर्णये इत्यादौ ।

६ एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः । यथा गुणोपसंहार इत्यादौ ।

७ साकल्येन संबन्धः । यथा सर्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात् इत्यादौ

( वाच ० ) । ८ मीमांसकास्तु सामान्यप्राप्तस्य विशेषे नियमनम् इत्याहुः

( लौ० भा० टी० पृ० २३ ) ।
 

 
<
उपसदः - >
दीक्षादिवसादूर्ध्वं सोमामिषवदिवसापूर्व कर्तव्याः होमाः ।
 

( जै० न्या० अ० ३ पा० ३ अधि० १३ ) ।
 

 
<
उपसर्ग:->
१ [क] जन्यबोधविषयीभूतक्रिया विशेष विषयक तात्पर्य ग्राहकले ।
 
-
 

सति प्राद्यन्यतमः । यथा प्रहरति विहरतीत्यादौ प्रादिरुपसर्गः । प्रादय

उपसर्गा द्वाविंशतिधा प्र परा अप सम् अनु अव निस् निर दु
स् दु
प्र
र्
वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप । ख

उपसर्गाः क्रियायोगे ( पा० सू० १/४/५९ ) इति शाब्दिकाः ।

उपसर्गस्य त्रिधा प्रवृत्तिः धात्वर्थ बाधते कश्चित् कश्चित्तमनुवर्तते ।

विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥ इति । क्रमेणोदाहरणानि यथा
 
आदते
 

प्रसूते प्रणमति इत्यादीनि ( वाच० ) । प्रादयो द्योतका इति नैयायिका

वैयाकरणाश्चाहुः । अत्र द्योतकत्वं च तात्पर्यग्राहकत्वम् ( वै० सा० ) /

अत्रेयं व्यवस्था । उपसर्गाणां मध्ये यत्र यस्योपसर्गस्य किंचिदर्थे शक्तिर्न

शक्तिः प्रामाणिकी तस्य वाचकत्वमेव । यथा उपकुम्भम् इत्यादौ । अन्यथा

प्रामाणिकी तस्य तत्र द्योतकत्वमेव । यथा प्रसूते इत्यादौ । यस्य च

तत्राव्ययीभाव समासानुपपत्तेः । तस्य निरर्थकत्वेन निराकाङ्क्षत्वात् ।
 

पूर्वे वाच्यं भवेद्यस्य सोव्ययीभाव इष्यते इत्यनुशासनात् ।
 
अन्ये तु
 
प्रादेश्च
निरर्थकत्वेपि स्वाद्यन्तमिह नामेष्टम् इत्यनुशासनेन खाद्यन्तत्वेन तस्यापि
 
प्रादेव