This page has not been fully proofread.

न्यायकोशः ।
 
१७३
 
प्रतिकूलतर्कः । न वा धूमाद्वह्निमानेवेत्यवधारणम् । द्रव्यत्वादेरपि धूमेन
1 साधनात् । न वा पर्वत एव वह्निमानित्यादिकमवधारयितुं शक्यते ।
 
महानसादेरपि वह्निमत्त्वात् । अन्यथा दृष्टान्तासिद्धिः स्यात् । एवं वह्नि-
५० शून्यपर्वतस्यापि सत्त्वाद्वाध इत्यादि ( गौ० वृ० ५/११२७ ) । [ग]
वायुपदर्शितसाधनाभावेपि साध्यस्योपलब्धिकथनम् । यथा शब्दः अनित्यः
प्रयत्नानुविधायित्वाद्धटवदित्यत्र प्रयत्नं विनापि वायुनोदनवशालक्षशाखा-
भङ्गजन्यस्य शब्दस्योपलब्धेर्न प्रयत्नानुविधायित्वं शब्देस्तीति ( नील०
पृ० ४४ ) । [घ ] अवधारणतात्पर्ये वादिवाक्ये विकल्पयत् ।
तद्बाधात्प्रत्यवस्थानमुपलब्धिसमो मतः ॥ इति ( ता० ० ० २
श्लो० १२३ ) ।

 
उपवासः - उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स
विज्ञेयः सर्वभोगविवर्जितः ॥ (पु० चि० पृ० १९८ ) ।
उपवास विधिः - उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम् । पक्षयोरुभयो-
रेष उपवासविधिः स्मृतः ॥ (पु० चि० पृ० १०७ ) ।
उपवेष:- येयं पलाशशाखा छित्वा वृक्षादाहृता तां पुनरिछत्वा मूलभाग:
www marath
प्रादेशपरिमित उपवेषः ( जै० न्या० अ० ४ पा० २ अधि० ३ ) ।
उपष्टम्भः -- १ आलम्बनम् ( वाच ० ) । २ संयोगविशेषो वा । यथा
जलीयतै जसवायवीयशरीराणां पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् (मु०
१ पृ० ८४ ) इत्यादौ । यथा वा सुवर्णस्य उष्णस्पर्श भास्वर रूपयोरुप-
ष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिरित्यादावुपष्टम्भः ( त ०
दी० १५० ९ ) । ३ पतनप्रतिरोध इति काव्यज्ञा वदन्ति (वाच० ) ।
 
HE
 
उपसंख्यानम्-तत्रानुक्तार्थस्य ग्रन्थान्तरेण कथनम्। यथा व्याकरण-
● शास्त्रे अक्षादूहिन्यामुपसंख्यानम् प्रकृत्यादिभ्य उपसंख्यानम् (वार्ति० )
 
इत्यादौ ।
 
उपसंहार: - १ सहचार: ( दीधि० २) । यथा अनुपसंहारी हेतुरित्यत्र
साध्यहेत्वोरुपसंहारस्याभावः । २ उपन्यासः ( गौ० वृ० ११ ११३८ ) ।