न्यायकोशः /225
This page has not been fully proofread.
१७१
न्यायकोशः ।
विषयित्वाविशेषणतया विषयविशेषणतया पदजन्यतावच्छेदकनिष्ठत्वमिति
गुरवः (कृष्ण० श० २०)। [ख] विवक्षितान्वयप्रतियोगितानवच्छेदकं
व्यवच्छेदकम् । यथा काकेन देवदत्तगृहमित्यादौ काको न गृहस्य
देवदत्तान्वयप्रतियोगितावच्छेदकः । अत्रायं भावः । प्रयोगकाले गृहे
काकासत्त्वेपि यदाकदाचित्काकसमवधानेपि पूर्वोपस्थितकाकस्मरणेन देव-
दत्तगृहं विज्ञायत इति काकस्योपलक्षणत्वमिति बोध्यम् । [ग] यद-
विज्ञ तात्पर्यविषयीभूतेतरान्वयधीस्तद्व्यवच्छेदकं
यत् तद्भिन्नम् ( चि० १ पृ० ३४ ) । [घ ] अविद्यमानं सत् व्याव-
र्तकम् । यथा जटामिस्तापस इत्यादौ तापसादेः कालान्तरीणजटादिकम्
( ग० न्यु० का० ३ पृ० ९१ ) । यथा वा यदा तु देवदत्तगृह उपरि
भ्रमन्नसन् काकः तदोपलक्षणम् ( वै० उ० ७ १२१८ ) । जटाभिरित्य-
• त्राविद्यमानजटादे: संबन्धविवक्षया मतुबाद्यनवकाशात् इत्थंभूतलक्षणे
( पा० सू० ३।३।२१ ) इत्यनेन तृतीया ज्ञेया । अयमाशयः। विशेषणस्य
संबन्धो मतुबादिभिः प्रत्याय्यते । अस्ति इत्यर्थे तदस्यास्यस्मिन्निति
मतुप् (पा० सू० ५/२/९४ ) इत्यनेन विहितानां वर्तमानसंबन्धार्थक-
त्वात् । अतो जटाभिस्तापस इत्यादावविद्यमानजटादे: संबन्धविवक्षया
• मतुबाघनवकाशात् तृतीया । अत्रायं विशेष: । कचिच्च विद्यमानमपि
अतद्ध्यावृत्ति – ( तद्भिन्न व्यावृत्ति-) न्यूनाधिकवृत्तितया न तत्र विशेषण-
•मित्युच्यते किंतूपलक्षणम् । यथा विद्यमानापि जटा तापसे उपलक्षणम् ।
तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणम् ( ग० न्यु० का० ३
न
पृ० ९२ ) । [ङ ] सदसद्वा समानाधिकरणं व्यावर्तकं विशेषणम्
• व्यधिकरणमुपलक्षणमित्युदयनाचार्या: ( चि० १ पृ० ३४ ) । [च ]
क्वचित् विधेयान्तरसमानकालीनमपि विशेषणं तदनन्वयितया तदन्वयि
न्युपलक्षणमित्युच्यते । यथा रूपवान् रसवानित्यादौ रूपादिकं रसा-
न्वयिनि । सास्नावान्गोपदवाच्य इत्यादौ सास्नादिकं गवादिपदवाच्ये ।
कचित् धर्मिंसंबद्धधर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युप-
लक्षणम् । अतः दण्डपुरुषौ इत्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षित-