2023-10-21 15:20:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
(त० प्र० ३) (दि०
 
१७० - १७१ ) ( म० प्र० ३ । ३४ )

( न्या० बो० ३ पृ० १९) । अत्रातिदेशवाक्यार्थस्त्रिविधः प्रतिगृह्यते ।

साधर्म्ये धर्ममात्रं च वैधर्म्यं चेति मेदतः ॥ इति ( ता० र० श्लो० २३ ) ।
 

 
<
उपमेयत्वम्>
सादृश्यानुयोगित्वम् । यथा चन्द्रवन्मुखमित्यादौ मुखस्योप-

त्वम् । शाब्दिकास्तु साधारणधर्मवत्तया परिच्छेद्यत्वमुपमेयत्वम्

इत्याहुः ( ल० म० ) ।
 
१७०
 

 
<
उपयोगः - >
१ [क] इष्टसाधनत्वम् । यथा यागः स्वर्गोपयोगी याद

यागस्य स्वर्गात्मकेष्टसाधनत्वम् । [ख ] आनुकूल्यम् । यथा अथवा

कार्यनिर्वृत्तेरुपयोगो यथाक्रमम् ( सुश्रु० ) इत्यादौ । यथा वा अनङ्ग

लेखक्रिययोपयोगम् ( कुमार० स० १ श्लो० ७ ) इत्यादौ ( वाच●

२ सहजचिद्रूपपरिणतिं स्वीकुर्वाणे ज्ञानदर्शने उपयोगः ( सर्व० सं०

पृ० ६७ आई० ) । ३ विवक्षितार्थपरिच्छित्तिलक्षणो

उपयोग इति बृहद्रव्यसंग्रहे ।
 
)"
 

 
<
उपरवः - >
ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ता

चतसृष्वाग्नेय्यादिविदिक्षु चत्वारो गर्ता अरनिमात्रखाता अधोभागेर

स्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता उपरवनामकाः
 

(जै
 
० न्या० अ० ३ पा० ८ अधि० १६ ) ।
 

 

 
<
उपलक्षणम् - >
( व्यावर्तकम् प्रकारो वा ) [क] प्रत्याय्यव्यावृत्त्यधिकरण

तावच्छेदकान्यत् व्यावर्तकम् । प्रत्याय्यव्यावृत्तिकारणतावच्छेदकान्यत

इति पाठान्तरम् । अत्र विशेषः । उपलक्षणं स्वानधिकरणेपि व्यावृत्तिं

बोधयति इति ( चि० १ पृ० ३४ ) । अत्रेदं बोध्यम् । उपलक्षणस्य

शाब्दबोधे भानं नास्तीति सिद्धान्तः । अत्रोपलक्षणत्वं च तत्पदजन्य-

बोधविषयत्वेन शक्त्यविषयत्वम् ( दि० ४ पृ० १७९) । भगवदि

च्छायां बोधविषयत्वेनाभासमानत्वे सति भासमान विषयांशे प्रकारत्वम

मिश्राः । शाब्दिकास्तु तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वे स

शक्तिविषयत्वम् । यथा धातूनां व्यापारमात्रवाचकत्ववादिनां प्राचीन
 
"
 
4
 

नैयायिकानां मते फलस्योपलक्षणत्वम् इत्याहु: (वै० सा० द० ) /
 
-
 
P
 
-