न्यायकोशः /223
This page has not been fully proofread.
न्यायकोशः ।
१६९
(त्वात् इति ( न्या० म० ३ पृ० २५ ) । गवयो गवयपदवाच्यः
इत्याकारिका उपमितिरिति नवीननैयायिकाः प्राहु: (मु०३पृ० १७१) ।
[ च ] शक्तिपरिच्छित्तिः (त० प्र० ख० ४ पृ० १ ) । यथा वयो
गवयपदवाच्यः इति । उपमितित्वं च उपमिनोमीत्यनुभवसिद्धो जाति-
विशेषः । अथवा शब्द विषयकत्वाव्यभिचारिजातिमत्परोक्षत्वम् ( न्या०
म० ३ पृ० २४ ) ( नील० ३ पृ० २७ ) । अत्र अनुमित्यादिवारणाय
जातिमदन्तम् । श्रवणवारणाय परोक्षपदम् प्रत्यक्षान्यपरम् ( न्या०
म० ३ पृ० ४ ) । यद्वा सादृश्यविशिष्टे पदवाच्यत्वप्रकारकस्मृतित्वावच्छि-
नकारणतानिरूपितकार्यत्वम् (वाक्य ० ३ पृ० १८) । अत्रेदं बोध्यम् ।
३
उपमितिर्हि पदवाच्यत्वविषयिका । पदं च शब्दात्मकम् इत्युपमितेः शब्द-
• विषयकत्व नियम इति ( न्या० म० ३ पृ० २४ ) । सा च प्रत्यक्षादि-
भ्योतिरिक्तैव । इयं प्रमितिः प्रत्यक्षादिप्रमितिभ्यो भिद्यते तद्विरुद्धधर्मत्वा-
•दित्यनुमानस्य प्रमाणत्वात् । उपमिनोमीति विलक्षण प्रमितित्वाच्चोप मितिरति-
रिक्तेति सिध्यति ( त० प्र० ३ ) । कणादमते गवयपदं सप्रवृत्तिनिमित्तकं,
साधुपदत्वादित्यनुमानेनैवात्रापि निर्वाह: । उक्तानुमाने च पक्षधर्मताबलाद्ग-
वयत्वप्रवृत्तिनिमित्तकत्वं पर्यवस्यतीत्यनुसंधेयम् ( त० व० पृ० ९८ ) ।
उपमितेरुत्पत्तिप्रकार स्वित्थम् । गवयशब्दार्थमजानन् कश्चिन्नागरिकः
कंचिद्वनेचरं कीदृशो गवयपदवाच्यः इति पृच्छति । ततस्तेन गोसदृशो
• गवयपदवाच्यः इत्युत्तरितः स कदाचिद्वनं गतो गोसदृशं पिण्डं
प्रागुक्तातिदेशवाक्यार्थी स्मृत्वा असौ गवयपदवाच्यः इति प्रतिपद्यते । सा
उपमितिः (त० कौ० ३१० १६) ( न्या० म० ३५० २४ )
(त० मा० पृ० १७) । अत्रेदमवधेयम् । अतिदेशवाक्यार्थज्ञानं
• शाब्दबोधरूपं करणम् । अतिदेशवाक्यार्थस्मृतिर्व्यापारः । सादृश्य-
विशिष्ट पिण्डदर्शनं सहकारि । उपमितिः फलम् । इति प्राचीननैयायिक
मतम् । सादृश्यप्रत्यक्षं करणम् । अतिदेशवाक्यार्थस्मृतिः व्यापारः ।
अत्र सादृश्यविशिष्ट पिण्डदर्शनस्योद्बोधक विधया तादृश वाक्यार्थस्मारकत्वात् ।
उपमितिः फलम् । इति नवीननैयायिकमतम् (न्या० म० ३१० २५)
पश्यन्
PRINCCRI
२२ न्या० को
AURON