2023-10-21 15:17:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१६८
 
न्यायकोशः ।
 
विधर्मगुणवती इत्यनुभवः । तृतीयम् गन्धवती पृथिवी इत्यनुभवः इति ।

( न्या० म० पृ० २४-२५) (म० प्र० ३ पृ० ३५ ) ( दिन० ३

पृ० १७२ ) । अत्र अयं (गवयः ) गवयपदवाच्यः इति इयं (पृथिवी)

पृथिवीपदवाच्या इति इयं पृथिवीपदवाच्या इति च क्रमेणोपमितय

उत्पद्यन्ते इति विज्ञेयम् (न्या० म० ३ पृ० २४ २५ ) ( म० प्र०

पृ० ३५ ) ( दि० ३ पृ० १७२ ) । एवम् कीदृक् करभपदवाच्यः

लम्बग्रीवः प्रलम्बोष्ठः कठोरकण्टकाशी इति प्रश्नोत्तरेपि धर्ममात्रोपमानं

ज्ञेयम् ( म० प्र० ३ पृ० ३५ ) । २ उपमितिः । ३ आलंकारिकास्तु

सादृश्य प्रतियोगि उपमानम् । यथा चन्द्र इव मुखमित्यादौ चन्द्र उप-

 

मानम् इत्याहुः ।
 
-
 

 
<
उपमितिः>
( अनुभवः ) [ क ] नियतधर्मसमानाधिकरणप्रवृत्तिनिमित्त

ज्ञानम् । प्रवृत्तिनिमित्तत्वं च प्रकारतया शक्तिग्रहविषयत्वम् । [ख]

अगृहीतसमयसंज्ञाया वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्त परिच्छेदः ।

गवयत्वविशिष्टो धर्मी गवयशब्दवाच्यः इति प्रवृत्तिनिमित्तविशेषपरि

[ग] किंचिद्वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्तपरिच्छेदः ।

च्छित्तिरुपमितिः (चि० ३ पृ० १५ - १७) । [घ ] लिङ्गवादि-

लक्षणातिदेशवाक्यार्थज्ञानजन्यज्ञानम् ( दीधि ० ) । [ङ ] सादृश्यज्ञान-

करणकं ज्ञानम् (मु० १ पृ० १११ ) ( न्या० म० ३ पृ० २४)

(त० प्र०) ( त० सं० ) । तच ( उपमित्यात्मकं ज्ञानम् ) संज्ञा-

संज्ञिसंबन्धज्ञानम् ( त० सं० ) ( न्या० बो० ३ पृ० १९) / यथा

अयं गवयपदवाच्यः इति ज्ञानम् उपमितिरिति प्राञ्चः ( त० सं० ३) /

संज्ञा पदम्। संज्ञी पदार्थः । तयोः संबन्धः शक्तिः । तज्ज्ञानमित्यर्थः

शब्दशक्तिग्रह विशेष इत्यर्थः (भा० प० ३ श्लो० ८१) । तथाहि

( न्या० बो० ३ पृ० १९) ( नील० ३ पृ० २७) । तयोः संबन्धी

वाच्यवाचकभावः ( वाक्य० ३१० १८) । अत्रेदं बोध्यम् ।'
अर्य
गवयपदवाच्यः इत्याकारिकायामुपमितौ गवयत्वावच्छेदेन गवयपद-
वाच्यत्वमवगाहते न तु गोसादृश्यावच्छेदेन । तस्य गौरवेणानवच्छेदक
गवयपदवाच्यः इत्याकारिकायामुपमितौ गवयत्वावच्छेदेन गवयपद
-
""
 
S
 
"
 
अर्य