This page has not been fully proofread.

न्यायकोशः ।
 
१६७
 
व्यापारः । उपमितिः फलम् इति । प्राचीन नैयायिकमतमेतत् । अथवा
अतिदेशवाक्यार्थस्मरणसहकृतं सादृश्यविशिष्टज्ञानमुपमितिकरणम्
 
। यथा
 
गोसादृश्यविशिष्टपिण्डज्ञानम् ( त० भा० ३ पृ० १७) (सि० च० ३
पृ० ३० ) । आगमस्मृतिसहितं सादृश्यज्ञानमुपमानमिति जरन्नैयायिका
जयन्तप्रभृतयः ( चि० ३ पृ० १० ) । [घ ] सादृश्यप्रमाकरणमिति
मायावादिनः ( वेदान्तपरि० ) ( चि० ३ पृ० १ ) । [ङ ] आगमा-
हितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् ( न्या० वा० १पृ० १६) ।
[च ] अव्युत्पन्नपदोपेतवाक्यार्थस्य हि संज्ञिनि । प्रत्यक्षप्रत्यभिज्ञानमुप-
मानमिहोच्यते ॥ इति (ता० २० श्लो० २२) । वैशेषिकाः सांख्याश्च पद-
वाच्यत्वव्याप्यसादृश्यादिपरामर्शात्पदवाच्यत्वस्यानुमितिरेव । अतो नोपमानं
• प्रमाणान्तरमित्याहुः ( सां० कौ० ) । तच्चिन्त्यम् । व्याप्तिज्ञानमन्तरेणापि
पदवाच्यत्वप्रमितेः शब्दादितोनुभवसिद्धत्वात् ( नील ० ३ पृ० २७ )
(न्या० म० ३१२४) (चि० ३) (भा०प० श्लो० १४२ ) । अनु-
मिनोमि इत्यनुव्यवसायविषयीभूता अनुमितिर्यथा प्रमित्यन्तरं तथा उपमि-
नोमि इति विलक्षणानुव्यवसायविषयीभूतोपमितिरपि प्रमित्यन्तरम् इति तत्क-
रणत्वेनोपमानं प्रमाणान्तर मिति नैयायिकाः प्राहु: (राम० ३ पृ० १७३) ।
तु ब्रूमः । अयं गवयपदवाच्यः इत्याद्युपमितौ गवयादिशब्दवाच्यस्य
• गवयत्व विशिष्टपिण्डस्येव गवयादिशब्दस्यापि विषयत्वेन सकलप्रमिति-
वैलक्षण्येनोपमितेः सर्वैरप्यभ्युपगन्तव्यतया तत्करणत्वेनोपमानस्य प्रमा-
•णान्तरत्वमावश्यकम् इति । उपमानं त्रिविधम् । सादृश्यविशिष्टपिण्ड-
(ज्ञानम् असाधारणधर्मविशिष्टपिण्डज्ञानम् वैधर्म्यविशिष्टपिण्डज्ञानं चेति ।
तत्राद्यम् गोसाय विशिष्टपिण्डज्ञानम् । द्वितीयम् खड्गमृगज्ञानम् ।
तृतीयम् उष्ट्रज्ञानम् ( सि० च० ३ पृ० ३०) । खड्गमृगे असा-
धारणधर्मश्च नासिकालसदेकशृङ्गत्वम् इति ज्ञेयम् । उष्ट्रे वैधर्म्यं तून्नत-
पृष्ठदीर्घग्रीवादि ऊह्यम् । प्रकारान्तरेणोपमानं त्रिविधम् । साधर्म्यापमा
नम् वैधर्म्यापमानम् धर्ममात्रोपमानं चेति ( म० प्र० ३ पृ० ३४ ) ।
तत्राद्यम् गोसदृशपिण्डानुभवः । द्वितीयम् इयं (पृथिवी ) जलादि-
वयं