न्यायकोशः /22
This page has not been fully proofread.
द्वितीयावृत्तौ प्रस्तावना
लोकेस्मिंस्तावत्सकलप्रेक्षावन्तः प्रवृत्ति प्रयोजनमन्विष्य प्रवर्तन्ते । प्रयोजनं
हि मुख्यगौणभेदेनैहिकामुष्मिकभेदेन च द्विविधम् । तत्रैहिकं प्रयोजनं च
दुःखसंभिन्नत्वादल्पत्वादसारत्वाच्च नात्यादरणीयम् । आमुष्मिकं मुख्य प्रयोजनं
तु निःश्रेयस शब्दवाच्यं दुःखासंभिन्नत्वादनत्पत्वात्सारत्वाच्च सर्वैरापामरमत्या-
दरणीयमेव । तच्च न किल द्रव्यादिना लभ्यम्, अपि तु तत्त्वज्ञानेनैव ।
तच्च खलु तत्त्वज्ञानम् 'आत्मा शरीरादिपदार्थेभ्यो भिन्नः' इत्याकारकत्वा-
च्छरीरादिपदार्थज्ञानं विना नोत्पद्यते । शरीरादिपदार्थज्ञानं चाशेषपदार्थ-
प्रतिपादकन्यायशास्त्रेणैव साध्यम् । अत एव न्यायशास्त्रस्यात्मविद्यात्वेन
संशयादिभेदानुविधायित्वेन च ' आन्वीक्षिकी' इति संज्ञा । अतो न्यायशास्त्र -
मावश्यकारम्भम् । एवं वैशेषिकशास्त्रस्यापि सतामैहिकामुष्मिकसकल पदार्थानां
व्यावृत्ति व्यवहारप्रयोजनकलक्षणस्वरूपादिप्रदर्शकत्वात् तर्कशास्त्रत्वेन सक-
लपदार्थानां प्रमाणतो व्यवस्थापकत्वाच्चावश्यारम्भणीयता सिद्ध्यति । यद्यपि
व्याकरणमीमांसादीनि बहूनि दर्शनानि ज्ञानप्रयोजनकानि सन्ति तथापि
तानि शब्दस्वरूपनिष्पत्तिकर्मप्रतिपत्त्यादिमात्रपराणि, इति नाशेषपदार्था-
न्याथातथ्येन व्युत्पादयितुं क्षमन्ते ।
किं च –न्यायवैशेषिकशास्त्रयोः सकलपदार्थविवेचनयुक्तिशास्त्रत्वात्तद-
ध्ययनतस्तत्रत्यायन्त दुर्लभ विविधविचित्रसुतर्कप्रकाश कयुक्ति परिसंशीलनसंस्कृ-
सर्वशास्त्रमर्माणि
तबुद्धिसौक्ष्म्यद्वारकनिखिलपदार्थतत्त्वविज्ञानादनायासेनैव
शक्यावगमानि भवन्ति इति न्यायवैशेषिकशास्त्रयोः सर्वशास्त्रोपकारकत्वाद-
व्यत्यवश्यारम्भणीयता सिद्धा ।
समुद्धृत्य
प्रकृते च खलु – कुशलमतयो यतमाना विद्वांसो व्याकरणादिशास्त्रेषु
काव्यादिषु च सर्वेषामश्रमेण मनसः प्रवेशाय तत्तत्सारान्स्वमेधया :
तत्र तत्र समासव्याससहितान्विविधान्सुगमनिबन्धानकोशांश्च रचयांचक्रुः ।
परंतु अभियुक्तैः "काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्" इति
-