2023-10-28 17:57:39 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१६५
 
कर्मकर्त्राद्युपपदभेदाद्बहुविध एव । वैयाकरणास्तु कारकमात्रोपपदकत्वात्

५ षड्डिध एवेत्याहुः । अत्रेदमवधेयम् । ब्रह्मभूयमित्यादौ कारकभिन्नेनाप्युप-

पदेन समास इति न षड्डिधत्वमात्रं तस्य किंत्वसावुपपदसमासोनेकविध

एवेति । असूर्येपश्या इत्यत्राप्युपपदसमास एव ( श० प्र० पृ० ६७ ) ।

 
<
उपभोगः>
विषयसेवनजन्यसुखविशेषः । यथा स्त्रीणां स्वपतिदायस्तु

उपभोगफलः स्मृतः ( महाभा० दान० वीरमित्रो० अ० २ पृ० ६२८ )

इत्यादावुपभोगः ।
 

 
<
उपमर्दः>
१ [ क ] एकरूपनिवृत्तौ रूपान्तरोपजनः (वात्स्या० २१ २ ॥

[क]
५६ ) । [ख ] धर्मिनिवृत्तौ धर्म्यन्तरप्रयोगः । यथा अस्तेर्भूः (गौ०

वृ० २१२/५६ ) । तथाहि व्याकरणशास्त्रे आर्धधातुकप्रत्ययविवक्षायाम -

सूधातोर्मू इत्यादेशे ( पा० सू० २/४/५२) बभूवेत्यादि रूपं सिष्यतीति

विज्ञेयम् । यथा वा ब्रूञो वचिः स्था इत्यस्य तिष्ठ इत्यादेशः ( वाच० )।

२ नाश इति मायावादिनः । ३ निष्पीडनमिति काव्यज्ञा वदन्ति ।

 
<
उपमा>
१ उपमानजन्यं शब्दशक्तिज्ञानम् । यथा गवयादिपदानां तु शक्ति-

धीरुपमा फलम् (भाषा० ३ लो० ८१) इत्यादौ सादृश्यज्ञानजन्य

गवयो गवयपदवाच्यः इत्युपमितिः । २ गवादिसादृश्यज्ञानम् उपमान-

मिति मायावादिनः । ३ अर्थालंकारविशेष इत्यालंकारिकाः । ४ साह-

श्यम् । यथा स्फुटोपमं भूतिसितेन शंभुना ( माघः स० १ श्लो० ४ )

इत्यादौ इति काव्यज्ञा वदन्ति ।
 

 
<
उपमानम् - >
१ ( प्रमाणम् ) [क] प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ।

तदर्थश्च प्रसिद्धस्य पूर्वप्रमितस्य गवादेः साधर्म्यात्सादृश्यात् तज्ज्ञानात

साध्यस्य गवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिः । यत इत्य-

मध्याहारेण च करणलक्षणम् । अथवा साध्यसाधनमिति करणल्युटा

करणलक्षणमेवेदम् ( गौ० वृ० ११ १/६) । प्रज्ञातेन सामान्यात्प्रज्ञा-

पनीयस्य प्रज्ञापनमुपमानमिति । यथा गौरेवं गवय इति । अत्र

उपमीयतेनेनेति करणे ल्युट् ( ल० म० ) । उपमानस्य प्रमाणा-

न्तरत्वमित्थम् । उपमितेः प्रत्यक्षादिप्रमितिभ्योतिरिक्तत्वात् विलक्ष
 
-