This page has not been fully proofread.

१६४
 
न्यायकोशः ।
 
-
 
उपपत्तिसमः - ( जातिः ) [क] उभयकारणोपपत्तेरुपपत्तिसमः ( गौ०
५।१।२५ ) । यद्यनित्यत्वकारणमुपपद्यते शब्दस्येत्यनित्यः शब्दः तदा
नित्यत्वकारणमप्युपपद्यतेस्य।स्पर्शत्वमिति नित्यत्वमप्युपपद्यते । उभय-
स्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमः ।
( वात्स्या० ५१११२५ ) । बाघदेशनाभासः प्रतिरोधदेशनाभासो वायम्
इतिज्ञेयम् ( गौ० वृ० ५।१।२५ ) । [ख] व्याप्तिमपुरस्कृत्य
यत्किंचिद्धर्मेण परपक्षदृष्टान्तेन स्वपक्षसाधनेन प्रत्यवस्थानम् । यथा
शब्दः अनित्यः कृतकत्वादित्युक्ते यथा त्वत्पक्षे अनित्यत्वे प्रमाणमस्ति
 
• तथा मत्पक्षोपि सप्रमाणकः त्वत्पक्षमत्पक्षान्यतरत्वात् त्वत्पक्षवत् । तथा
च बाधः प्रतिरोधो वा ( गौ० वृ० ५ । १ । २५ ) । ग उभयपक्ष-
साधर्म्येण साधनोपपत्तिकथनम् । यथा यदि चानित्यत्वसाधनं कार्यत्व
मुपपद्यत इति शब्दस्यानित्यत्वं तदा नित्यत्वसाधनमपि किंचिदुपपद्यत
 
इति नित्यत्वं किं न स्यादिति ( नील० पृ० ४४ ) ।
 
उपपदम् - १ समीपोच्चारितः पूर्वमुच्चार्यः शब्दः । यथा तस्याः स राजो
पपदं निशान्तम् ( रघु० स० १६ श्लो० ४०) । फलन्ति कल्पोप-
• पदास्तदेव ( माघ० स० ३ श्लो० ५९ ) इत्यादौ । २ नामोत्तर
• मुच्चारितः शर्मवर्मादिशब्दः । ३ शाब्दिकास्तु सप्तम्यन्तेन निर्दिश्यमानं
पदम् । यथा कर्मण्यण् (पा० सू० ३।२।१ ) इत्यादौ कर्मणि इति
" सप्तम्यन्तेन निर्दिश्यमानं कुम्भकार इत्यादौ कुम्भादिकं पदं अणूप्रत्यय
 
विधाने उपपदम् इत्याहुः
 
( वाच० ) ।
 
अत्र
 
उपपदसमासः - ( यौगिक नाम ) धातुकृद्भ्यां निष्पन्नं यस्योत्तरपदं
शब्दान्तनुत्तरं सद्यादृशार्थस्य बोधं प्रत्यसमर्थ तादृशार्थकान्त्यपदक
समासः स उपपदसंज्ञकः । यथा कुम्भकारः क्षीरपायीत्यादावपपद-
समासः । अत्रोत्तरपदशब्द: समासचरमावयवे रूढ इत्यनुसंधेयम् ।
तु समासे धातुकृत्र्यां निष्पन्नं कर्त्राद्यर्थकं कारादिपदम् पदान्तरानुत्तरं
सन्न कर्त्रादेरन्वयबोधक्षममिति लक्षणसमन्वयो बोध्यः ( श० प्र० पू०
६६ ) । एवं क्षीरपायीत्यादावप्यूह्यम् । उपपदसमासश्च उपपदमतिङ्
(पा० सू० २।२।१९) इत्यनेन भवतीति ज्ञेयम् । उपपदसमासभ
 
-