न्यायकोशः /217
This page has been fully proofread once and needs a second look.
१६३
संसारस्यायन्तावसादनात् । उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याग्रन्थो-
प्युपनिषदुच्यते ( बृ० शं० भा० ) ।
<उपनीतभानम्
१ उपनीततत्तादिविषयकत्वम् । यथा प्रत्यभिज्ञात्मके घटो
नास्ति सुरभि चन्दनम् इत्यादौ प्रत्यक्ष उपनीतभानम् । अत्र उपनीतस्य
ज्ञातस्य भानम् विषयिता इति विग्रहः । अत्रायं विशेषोवधार्यः । इदमुप-
नीतभानं प्रत्यक्ष एव तिष्ठति न त्वनुमित्यादावपीति (ग० बाघ ०
पृ० २१ ) ( दीधि ० २ पृ० २२२ ) । २ लौकिकालौकिकोभय-
संनिकर्षजन्यं ज्ञानम् । यथा सुरभि चन्दनम् इति प्रत्यक्षमुपनीतभानं
भवति । तच्च सौरभ्यांशे अलौकिकसंनिकर्षः चन्दनांशे लौकिक-
संनिकर्षश्चैतदुभाभ्यां जन्यत इति बोध्यम् । अत्र उपनीतस्य भानं यत्र
तत् इति व्युत्पत्तिर्द्रष्टव्या ।
O
<उपनीतम्
ज्ञानलक्षणसंनिकर्षेण ज्ञातम् । यथा उपनीतं विशेषणतयैव
भासते मानसे तु नायं नियम इत्यादौ ( वाच० ) ।
-
<उपन्यासः
१ वाक्योपक्रमः । २ वाक्यप्रयोगः । यथा तस्माद्ब्रह्मजिज्ञासो-
•
पन्यासमुखेन ( शा० भा० ) इत्यादौ । ३ विचारः ( कुल्लूकभट्टः
९। ३१ ) । यथा पुण्यमुपन्यासं निबोधत ( मनु० अ० ९ श्लो० ३१)
इत्यादौ । ४ विश्वासेनान्यसमीपे द्रव्यन्यासः ( उपनिधिः ) इति व्यव-
p
Pro
हारज्ञा आहुः ।
109
<उपपत्तिः
१ ज्ञानम् । यथा समानानेकधर्मोपपत्तेः ( गौ० ११ १२ १२३)
•
इत्यादी ज्ञानम् ( गौ० वृ० १ । १ । २३ ) । यथा वा अविज्ञाततत्त्वेर्थे
•
कारणोपपत्तितः ( गौ० ११११४० ) इत्यादा बारोपात्मकं ज्ञानम् ।
२ साधक प्रमाणोपन्यासरूपा युक्तिः (वै० सा० द० ) । यथा श्रोतव्यः
श्रुतिवाक्येभ्यो मन्तव्यचोपपत्तिभिरित्यादौ । ३ संगतिः । यथा उपपत्ति-
मदूजिताश्रयं वचनम् ( किरा० स० २ श्लो० १) इत्यादौ । ४ हेतुः
५ उपाय: ६ प्राप्तिः ७ सिद्धिः इति काव्यज्ञा वदन्ति ( वाच० ) ।