2023-10-21 14:47:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 

 
लिङ्गोपसंहारः (त० भा० पृ० ४३ ) । [घ ] उदाहृतव्याप्तिविशिष्ट-

त्वेन हेतोः पक्षधर्मताप्रतिपादकं वचनम् ( सि० च० २५० २५ ) ।

[ङ ] परामर्शित्ववचनम् । [च ] व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचः

नम् ( त० दी० २ पृ० २२ ) । यथा तथा चायम् तद्व्याप्य हेतुमान्

तद्वान् वा इति वाक्यमुपनय: ( दीधि० २ अव० पृ० १७० ) ।

अयम् । तथा चायम् इत्याकारः प्राचामुपनयः । नव्यानां तु

तद्व्याप्यहेतुमान् तद्वान् वेत्याकार उपनयः ( दीधि० पृ० १७०) ।

एवं च पर्वते धूमेन वहिसाधने वह्निव्याप्यधूमवानयम् इति वाक्यमुप-

नयः । तथा चायम् तद्वान् इत्यत्र तच्छब्देन वह्निव्याप्यधूमस्य तद्व्याप्य

वान् इत्यत्र तु तच्छन्देन साध्यस्य परामर्शात् ( ग० २ अव० पू०

३५ ) ( त० भा० पृ० ४३ ) ( त० सं० ) । केचित्तु पर्वतो वहि

मानित्यादौ तथा चायम् इत्याकारः वह्निमद्व्याप्यधूमवानयम् इत्याकारो

वा उपनय इति प्राहुः ( दीधि० पृ० १७० ) । उपनयो द्विविधः

यथा सुरभि चन्दनम् इत्यादिप्रत्यक्षस्य जनको ज्ञानलक्षणः संनिकर्ष

अन्वय्युपनयः व्यतिरेक्युपनयश्चेति ( गौ० वृ० ११ १/३८) । २ ज्ञानम्

उपनयः ( मू० म० १ ) । स्वविषये मनसः संनिकर्ष इत्यर्थः (ग०

बाघ० पृ० २१ ) । अत्र व्युत्पत्तिः । नीयत उपस्थाप्यते ज्ञानविषय

तामापाद्यतेनेन इति करणे अच् । अधिकं तु ज्ञानलक्षणः एतव्या-

ख्याने सविस्तरं संपादयिष्यते । ३ उपनयनाख्यः संस्कारविशेष इति
 
moo
 

धर्मज्ञा वदन्ति ।
 
१६२
 
-
 

 
<
उपनिक्षेपः>
रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् ।
 

यथाह नारदः । स्वं द्रव्यं यत्र
 
HER
 
विस्रम्भान्निक्षिपत्यविशङ्कितः ।
 
PARA
 
निक्षेपो
नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥ ( मिताक्षरा अ० २ श्लो० २५ ) //

 
<
उपनिधिः - >
असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधि
 
1
 

निक्षेपं गणितं विदुः ॥ ( मिताक्षरा अ० २ श्लो० ६५ ) ।
 

 
<
उपनिषत्>
१ ब्रह्मविद्या । २ ब्रह्मविद्याप्रतिपादकं वेदशिरोभागरूपं

वेदान्तशास्त्रम् । यथा ऐतरेयकठवडीईशावास्यकेनप्रश्न इत्यादि
 
/