2023-10-21 14:45:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
-
 
<उपधिः>
१ अन्यथा स्थितस्य वस्तुनः अन्यथाप्रकाशनरूपो व्यापारः ।

यथा योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत्सर्वे

३ विनिवर्तयेत् ॥ ( मनु० अ० ८ श्लो० १६५ ) इत्यादौ । २ छलमिति

काव्यज्ञा वदन्ति (वाच० ) ।
 

 
<
उपधेयः>
१ यत्किंचिद्धर्मविशिष्टो धर्मी । यथा उपधेयसंकरेप्युपाभ्यसंकरा -

दित्यादौ । अत्रेदमुदाह्रियते । वायुर्गन्धवान् स्नेहादित्यादानुपधेयस्य दोषा-

श्रयस्य धर्मिणः स्नेहादेर्हेतोः संकरेपि (ऐक्येपि ) उपाधीनां व्यभिचार-

विरोधादिरूपदोषात्मकधर्माणामसांकर्यात् ( भेदेन प्रतीयमानत्वात् )

पृथक् तत्तद्दोषव्यवहार उपपद्यत इति । एवमन्यत्राप्यूह्यम् ।

२ मन्त्रविशेषेण स्थापनीय इष्टकादिरिति याज्ञिका आहुः ( वाच० ) ।
 
स्नेहा दौ
 
10
 

 
<
उपनयः>
१ ( न्यायावयवः ) [क] उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति

वा साध्यस्योपनयः ( गौ० ११११३८ ) । साध्यस्य पक्षस्योदाहरणापेक्ष

उदाहरणानुसारी य उपसंहार उपन्यासः स इत्यर्थः ( गौ० दृ०

११ १२ १३८) । उदाहरणानन्तरं भवतु व्याप्तिस्तथापि व्याप्तं किं पक्षे

वर्तते न वा इत्याकाङ्क्षायां व्याप्तस्
य पक्षधर्मत्व प्रदर्शनायोपनयः । पक्ष-

धर्मताज्ञानमुपनयस्य प्रयोजनम् ( त० दी० २ पृ० २२) । उदा-

हरणान्त एव प्रयोग इति न वाच्यम् । तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्ष-

धर्मतावगाहिनोवयवान्तरादलाभात् । उपनयानभ्युपगमे पक्षधर्मताया अ-
*

लाभात् ( चि० २ पृ० ८१ ) । लक्षणं तूपनयत्वमेव । तच्च अनुमिति-

कारणतृतीयलिङ्गपरामर्शजनकावयवत्वम् ( चि० २ अव० पृ० ८१ ) ।

विशेष्ये निगमनार्थस्य विशेषणत्वेनान्वयालक्षणसमन्वय इति बोध्यम् ।

इतरोपस्थापितार्थविशेषण कस्वार्थबोधजनकन्यायावयवत्वं वा । उपनयार्थे

एवमुत्तरत्रापि ज्ञेयम् । अथवा स्वार्थविशेष्यकेतरार्थान्वयबोधजनकन्याया

वयवत्वम् ( दीधि० २ पृ० १७७ - १७८) । यद्वा वहिव्याप्यघूम-

बानयमिति शब्दवृत्त्यवयवविभाजकोपाधिमत्त्वम् ( न्या० म० २ १०

२४ ) । [ख] प्रकृतोदाहरणोपदर्शितव्याप्तिविशिष्टहेतु विशिष्टपक्षबोध-

जनको न्यायावयवः (गौ० वृ० ११ १२ १३८ ) । [ग ] पक्षे व्याप्त-

२१ न्या० को०