This page has not been fully proofread.

न्यायकोशः ।
 
-
 
उपधिः – १ अन्यथा स्थितस्य वस्तुनः अन्यथाप्रकाशनरूपो व्यापारः ।
यथा योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत्सर्वे
३ विनिवर्तयेत् ॥ ( मनु० अ० ८ श्लो० १६५ ) इत्यादौ । २ छलमिति
काव्यज्ञा वदन्ति (वाच० ) ।
 
उपधेयः—१ यत्किंचिद्धर्मविशिष्टो धर्मी । यथा उपधेयसंकरेप्युपाभ्यसंकरा -
दित्यादौ । अत्रेदमुदाह्रियते । वायुर्गन्धवान् स्नेहादित्यादानुपधेयस्य दोषा-
श्रयस्य धर्मिणः स्नेहादेर्हेतोः संकरेपि (ऐक्येपि ) उपाधीनां व्यभिचार-
विरोधादिरूपदोषात्मकधर्माणामसांकर्यात् ( भेदेन प्रतीयमानत्वात् )
पृथक् तत्तद्दोषव्यवहार उपपद्यत इति । एवमन्यत्राप्यूह्यम् ।
२ मन्त्रविशेषेण स्थापनीय इष्टकादिरिति याज्ञिका आहुः ( वाच० ) ।
 
स्नेहा दौ
 
10
 
उपनयः—१ ( न्यायावयवः ) [क] उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति
वा साध्यस्योपनयः ( गौ० ११११३८ ) । साध्यस्य पक्षस्योदाहरणापेक्ष
उदाहरणानुसारी य उपसंहार उपन्यासः स इत्यर्थः ( गौ० दृ०
११ १२ १३८) । उदाहरणानन्तरं भवतु व्याप्तिस्तथापि व्याप्तं किं पक्षे
य पक्षधर्मत्व प्रदर्शनायोपनयः । पक्ष-
धर्मताज्ञानमुपनयस्य प्रयोजनम् ( त० दी० २ पृ० २२) । उदा-
हरणान्त एव प्रयोग इति न वाच्यम् । तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्ष-
धर्मतावगाहिनोवयवान्तरादलाभात् । उपनयानभ्युपगमे पक्षधर्मताया अ-
* लाभात् ( चि० २ पृ० ८१ ) । लक्षणं तूपनयत्वमेव । तच्च अनुमिति-
कारणतृतीयलिङ्गपरामर्शजनकावयवत्वम् ( चि० २ अव० पृ० ८१ ) ।
• विशेष्ये निगमनार्थस्य विशेषणत्वेनान्वयालक्षणसमन्वय इति बोध्यम् ।
इतरोपस्थापितार्थविशेषण कस्वार्थबोधजनकन्यायावयवत्वं वा । उपनयार्थे
एवमुत्तरत्रापि ज्ञेयम् । अथवा स्वार्थविशेष्यकेतरार्थान्वयबोधजनकन्याया
वयवत्वम् ( दीधि० २ पृ० १७७ - १७८) । यद्वा वहिव्याप्यघूम-
बानयमिति शब्दवृत्त्यवयवविभाजकोपाधिमत्त्वम् ( न्या० म० २ १०
२४ ) । [ख] प्रकृतोदाहरणोपदर्शितव्याप्तिविशिष्टहेतु विशिष्टपक्षबोध-
जनको न्यायावयवः (गौ० वृ० ११ १२ १३८ ) । [ग ] पक्षे व्याप्त-
२१ न्या० को०