2023-10-21 14:41:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१६०
 
न्यायकोशः ।
 
पत्त्यनुकूळव्यापारः। यथा शिष्यं धर्मे वदति वक्ति ब्रूते उपदिशति

आचष्टे इत्यादौ वदप्रभृतिधात्वर्थः । अत्र धात्वर्थघटकप्रतिपत्तौ शिष्यस्या-

धेयत्वेन धर्मस्य च विषयत्वेनान्वयात् धर्मविषयिणी या शिष्यनिष्ठा

प्रतिपत्तिस्तदनुकूलव्यापारवान् इत्याकारको बोधः । अत्र तादृशव्यापारो

धर्मः सेव्यताम् इत्यादिको गुर्वाद्यभिलापः ( श० प्र० पृ० ९८ ) ।

३ अनुशासनम् । यथा आर्षे धर्मोपदेशं च वेदशास्त्राविरोधिना ।

यस्तर्केणानुसंधत्ते स धर्मे वेद नेतरः ॥ ( मनु० अ० १२ श्लो० २०६ )

इत्यादौ । ४ हितकथनं ५ प्रवर्तकवाक्यं वा । यथा धर्मोपदेशं दर्पेण

विप्राणामस्य कुर्वतः ( मनु० अ० ८ श्लो० २७२) इत्यादौ । ६
 

शिष्याय सविधानं मन्त्रकथनमुपदेश इति मात्रिकाः । ७
दीक्षाभेद इति
 
शिष्याय सविधानं मन्त्रकथनमुपदेश इति मात्रिकाः । ७

तात्रिका: ( वाच० ) । ८ आद्योच्चारणमुपदेश इति शाब्दिका वदन्ति ।

तदुक्तम् धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा

उपदेशाः प्रकीर्तिताः ॥ इति । ९ यत्रापेक्षितस्यार्थजातस्य प्रतिपादको

ग्रन्थसंदर्भः पठ्यते स उपदेश इति मीमांसकाः ( जै० न्या० अ० ७
 

पा० १ अवि० १) ।
 

 
<
उपधा>
१ कामक्रोधादयो भावदोषाः । एते अधर्मजनकाः ( त० व० ) ।

२ धर्मार्थकामाद्युपन्यासेनामात्यपरीक्षणम् । यथा चिन्तावन्तः कथां

चक्रुरुपधाभेदभीरवः (भट्टि ) इत्यादौ इति नीतिशास्त्रज्ञाः । ३ छलम् /
 
100
 

यथा उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ( मनु० अ० ८
श्लो०

१९३) इत्यादौ इति व्यवहारज्ञाः । ४ अलोन्त्यापूर्व उपधा (पा०

सू० ११११६५) इति शाब्दिका वदन्ति ( वाच० ) । ५ परवश्च-

नेच्छा ( प्रशस्त० गु० कामनि० पृ० ३३ ) ।
 
३ विशेषः ४ प्रणयश्च इति काव्यज्ञा आहुः ( वाच० ) ।
 

 
<
उपधानम् - >
१ उपधायकत्ववदस्यार्थोनुसंधेयः । २ व्रतविशेष इति धर्मज्ञाः ।

३ विशेषः ४ प्रणयश्च इति काव्यज्ञा आहुः ( वाच० ) ।
 
<
उपधायकत्वम्>
१ ( कारणत्वम् ) अव्यवहित पूर्ववृत्तित्वसंबन्धेन फलव
 

शिष्टत्वम् । यथा परामर्शस्यानुमित्यात्मक फलोपधायकत्वम् ।
यथा वा
विशेषणज्ञानस्य विशिष्टज्ञानात्मक फलोपधायकत्वम् ।
 
वा
यथा
 
-