2023-10-21 14:39:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१५९
 
न्यायकोशः ।
 
<उपचारच्छलम् - >
( छलम्) [ क ] धर्मविकल्पनिर्देशेर्थसद्भावप्रतिषेध

उपचारच्छलम् (गौ० १।२।१४) । अभिधानस्य धर्मो यथार्थप्रयोगः ।

धर्मविकल्पोन्यत्र दृष्टस्यान्यत्र प्रयोगः । तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा

मञ्चाः क्रोशन्तीति । अर्थसद्भावेन प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति

न तु मञ्चाः कोशन्ति (वात्स्या० १ । २।१४ ) । [ख ] शक्तिलक्षण-

योरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलम् ।

यथा मञ्चाः क्रोशन्ति इत्यत्र मञ्चस्था एव क्रोशन्ति न तु मञ्चाः । एवम्

नीलो घट इत्यत्र घटस्य कथं नीलरूपाभेदः । एवम् अहं नित्य इति शक्त्या

प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोप्युपचारच्छलम् ।

वाद्यमिप्रेतार्थस्यादूषणेन छलस्यासदुत्तरत्वम् ( गौ० वृ० १।२।१४ ) ।

[ग] उपचारप्रयोगेषु गौणलाक्षणिकेषु यः । मुख्यार्थासंभवाद्वाध

उपचारच्छलं च तत् ॥ इति । (ता० २० परि० १ श्लो० ९६-९७) ।

 
<
उपजीवकत्वम्>
[ क ] कार्यत्वम् । यथा घटस्य दण्डोपजीवकत्वम् ।

यथा वा संगतिश्च प्रत्यक्षेणोपजीव्योपजीवकभाव इत्यादावनुमाने प्रत्यक्ष-

कार्यत्वम् ( राम० २ पृ० १३४ ) । ख प्रयोज्यत्वम् । यथा शाब्द-

 
<
उपजीवी>
प्रयोज्यः । यथा शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगार्थको

बोधस्योपमितिप्रयोजकत्वम् ( राम० १३४ ) इत्यत्रोपमितेः प्रयोज्यत्वम् ।

दृष्टार्थकः शब्दः (गौ० वृ० १११।८) इत्यादौ ग्रन्थे उपजीविन् शब्दस्यार्थः ।

 
<
उपजीव्यत्त्रम्>
१ [क] कारणत्वम् । [ ख ] प्रयोजकत्वम् । उदाह-

पूर्वोक्तम्। उपजीव्यत्वं च द्विविधम् । स्वसत्ता-

प्रयोजकत्वम् स्वज्ञान प्रयोजकत्वं च । उपजीव्योपजीवकभावश्च ज्ञान-

सत्त्वयोः प्रयोज्य प्रयोजकभावः । यथा एकस्यान्यसत्ताप्रयोजकत्वम् अप

रस्य च तत्प्रयोज्यसत्ताकत्वम् । एवम् अन्यज्ञानप्रयोजकत्वम् अन्याधीन-

ज्ञानविषयत्वम् । २ काव्यज्ञास्तु उपजीवनोपायवान्। यथा सूचकाः

सेतुभेत्तार: परवृत्युपजीवकाः । अकृतज्ञाश्च मित्राणां ते वै निरयगा-

मिनः ॥ ( भा० आ०
अ० २३) इत्यादौ इत्यादुः ( वाच० ) ।
 

 
<
उपदेशः - >
१ शब्दः ( गौ० वृ० २/१/५२ ) । यथा आप्तोपदेश-

सामर्थ्याच्छन्दार्थे संप्रत्ययः ( गौ० २११/५२ ) इत्यादौ । २ प्रति-