न्यायकोशः /213
This page has not been fully proofread.
१५९
न्यायकोशः ।
उपचारच्छलम् - ( छलम्) [ क ] धर्मविकल्पनिर्देशेर्थसद्भावप्रतिषेध
उपचारच्छलम् (गौ० १।२।१४) । अभिधानस्य धर्मो यथार्थप्रयोगः ।
धर्मविकल्पोन्यत्र दृष्टस्यान्यत्र प्रयोगः । तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा
मञ्चाः क्रोशन्तीति । अर्थसद्भावेन प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति
न तु मञ्चाः कोशन्ति (वात्स्या० १ । २।१४ ) । [ख ] शक्तिलक्षण-
योरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलम् ।
यथा मञ्चाः क्रोशन्ति इत्यत्र मञ्चस्था एव क्रोशन्ति न तु मञ्चाः । एवम्
नीलो घट इत्यत्र घटस्य कथं नीलरूपाभेदः । एवम् अहं नित्य इति शक्त्या
प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोप्युपचारच्छलम् ।
वाद्यमिप्रेतार्थस्यादूषणेन छलस्यासदुत्तरत्वम् ( गौ० वृ० १।२।१४ ) ।
[ग] उपचारप्रयोगेषु गौणलाक्षणिकेषु यः । मुख्यार्थासंभवाद्वाध
उपचारच्छलं च तत् ॥ इति । (ता० २० परि० १ श्लो० ९६-९७) ।
उपजीवकत्वम् –[ क ] कार्यत्वम् । यथा घटस्य दण्डोपजीवकत्वम् ।
यथा वा संगतिश्च प्रत्यक्षेणोपजीव्योपजीवकभाव इत्यादावनुमाने प्रत्यक्ष-
कार्यत्वम् ( राम० २ पृ० १३४ ) । ख प्रयोज्यत्वम् । यथा शाब्द-
उपजीवी — प्रयोज्यः । यथा शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगार्थको
बोधस्योपमितिप्रयोजकत्वम् ( राम० १३४ ) इत्यत्रोपमितेः प्रयोज्यत्वम् ।
दृष्टार्थकः शब्दः (गौ० वृ० १११।८) इत्यादौ ग्रन्थे उपजीविन् शब्दस्यार्थः ।
उपजीव्यत्त्रम् –१ [क] कारणत्वम् । [ ख ] प्रयोजकत्वम् । उदाह-
पूर्वोक्तम्। उपजीव्यत्वं च द्विविधम् । स्वसत्ता-
प्रयोजकत्वम् स्वज्ञान प्रयोजकत्वं च । उपजीव्योपजीवकभावश्च ज्ञान-
सत्त्वयोः प्रयोज्य प्रयोजकभावः । यथा एकस्यान्यसत्ताप्रयोजकत्वम् अप
रस्य च तत्प्रयोज्यसत्ताकत्वम् । एवम् अन्यज्ञानप्रयोजकत्वम् अन्याधीन-
ज्ञानविषयत्वम् । २ काव्यज्ञास्तु उपजीवनोपायवान्। यथा सूचकाः
सेतुभेत्तार: परवृत्युपजीवकाः । अकृतज्ञाश्च मित्राणां ते वै निरयगा-
मिनः ॥ ( भा० आ०
अ० २३) इत्यादौ इत्यादुः ( वाच० ) ।
उपदेशः - १ शब्दः ( गौ० वृ० २/१/५२ ) । यथा आप्तोपदेश-
सामर्थ्याच्छन्दार्थे संप्रत्ययः ( गौ० २११/५२ ) इत्यादौ । २ प्रति-