2023-10-21 14:36:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

'न्यायकोशः ।
 
१५७
 
स्पर्शेषु चतुर्षु वर्तते इति बहूनां मतम् । यथा उद्भूतरूपं नयनस्य गोचरः

( भा० प० श्लो० ५४ ) उद्भूतस्पर्शवद्रव्यं गोचरः सोपि च त्वचः

(भा० प० श्लो० ५६) इत्यादौ नीलत्वादिव्याप्यानुद्भूतत्वाभावकूटवत्वम् ।

[ख] प्रत्यक्षयोग्यरूपरसगन्धस्पर्शसंयोगाद्यन्यतमत्वम् । [ग] उद्भूतत्वं

जातिस्तदभावोनुद्भुतत्वमिति जरनैयायिकाः । तदयुक्तम् । यथाहि

अनुद्भूतत्वं जातिर्न भवति शुकृत्वादिना संकरात् । एवमुद्भूतत्वमपि

जाति भवतीति विज्ञेयम् ( सि० च० १ पृ० ४ ) । अत्र नव्याः

उद्भूतत्वं जातिः । न च शुकृत्वादिना सांकर्यम् । गुणसांकर्य न बाधक-

मित्याहुः ( नी० १ पृ० १३) । [घ ] अनुद्भूतत्वं जाति-

स्तदभाव उद्भूतत्वमिति गङ्गेशोपाध्यायः (सि० च० १ पृ० ४-५ ) ।

केचित्त शुक्लत्वादिव्याप्यमनुद्भूतत्वं नाना । तत्तदभाव कूटवत्वमेवोद्भूतत्व-

मित्याहुः ( नील० १ पृ० १३ ) ।
 
-
 

 
<
उद्वापः>
१ श्रूयमाणपदपरित्यागः पश्चात् । यथा घटं न गामानय

इत्यादिवाक्यादावावापोद्वापाभ्यामित्यादौ ( मुक्ता ० ४ पृ० १७६ ) ।
 

२ उद्धरणम् ( वाच ) ।
 
-
 

 
<
उद्धृषभयज्ञः - >
ज्येष्ठमासे पौर्णमास्यां बली वर्दानभ्यर्च्य धावयन्तीत्याचारः ।

सोयमुद्द्वृषभयज्ञः ( जैमि० न्या० अ० १ पा० ३ अधि० ८ ) ।

 
<
उन्नयनम् - >
१ अनुमानम् । २ वितर्कः । ३ यज्ञीयः पूतभृदाख्यः पात्र-

विशेष इति याज्ञिका आहुः । ४ ऊर्ध्वप्रापणमिति काव्यज्ञाः (बाच ० ) ।

५ संस्कारविशेष इति मौहूर्तिकाः ।
 

 
<
उन्नायकत्वम्->
ज्ञापकत्वम् । अत्र ज्ञापकत्वं जनकज्ञानविषयत्वम् । यथा

पर्व घूमेन वह्निसाधने वह्निमपर्वतोन्नायकत्वं वह्निव्याप्यवत्पर्वतस्य ।

 
<
उन्नेयत्वम् - >
ज्ञाप्यत्वम् । अत्र ज्ञाप्यत्वं जन्यज्ञान विषयत्वमिति बोध्यम् ।

यथा पर्वते धूमेन वह्निसाधने वहिव्याप्यवत्पर्वतोन्नेयत्वं वह्निमत्पर्वतस्य ।
 
<
उन्मत्त:>
उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः
यथा पर्वते धूमेन वह्निसाधने वहिव्याप्यवत्पर्वतोन्नेयत्वं वह्निमत्पर्वतस्य ।
 

( मिताक्षरा अ० २ श्लो० ३२ ) ।
 

 
<
उपकारः ->
[क सहकारिलाभः । यथा घटाद्युत्पत्ती दण्डाद्युपकारः ।
 
-