This page has not been fully proofread.

'न्यायकोशः ।
 
१५७
 
स्पर्शेषु चतुर्षु वर्तते इति बहूनां मतम् । यथा उद्भूतरूपं नयनस्य गोचरः
( भा० प० श्लो० ५४ ) उद्भूतस्पर्शवद्रव्यं गोचरः सोपि च त्वचः
(भा० प० श्लो० ५६) इत्यादौ नीलत्वादिव्याप्यानुद्भूतत्वाभावकूटवत्वम् ।
[ख] प्रत्यक्षयोग्यरूपरसगन्धस्पर्शसंयोगाद्यन्यतमत्वम् । [ग] उद्भूतत्वं
जातिस्तदभावोनुद्भुतत्वमिति जरनैयायिकाः । तदयुक्तम् । यथाहि
अनुद्भूतत्वं जातिर्न भवति शुकृत्वादिना संकरात् । एवमुद्भूतत्वमपि
जाति भवतीति विज्ञेयम् ( सि० च० १ पृ० ४ ) । अत्र नव्याः
उद्भूतत्वं जातिः । न च शुकृत्वादिना सांकर्यम् । गुणसांकर्य न बाधक-
मित्याहुः ( नी० १ पृ० १३) । [घ ] अनुद्भूतत्वं जाति-
स्तदभाव उद्भूतत्वमिति गङ्गेशोपाध्यायः (सि० च० १ पृ० ४-५ ) ।
केचित्त शुक्लत्वादिव्याप्यमनुद्भूतत्वं नाना । तत्तदभाव कूटवत्वमेवोद्भूतत्व-
मित्याहुः ( नील० १ पृ० १३ ) ।
 
-
 
उद्वापः – १ श्रूयमाणपदपरित्यागः पश्चात् । यथा घटं न गामानय
इत्यादिवाक्यादावावापोद्वापाभ्यामित्यादौ ( मुक्ता ० ४ पृ० १७६ ) ।
 
२ उद्धरणम् ( वाच● ) ।
 
-
 
उद्धृषभयज्ञः - ज्येष्ठमासे पौर्णमास्यां बली वर्दानभ्यर्च्य धावयन्तीत्याचारः ।
सोयमुद्द्वृषभयज्ञः ( जैमि० न्या० अ० १ पा० ३ अधि० ८ ) ।
उन्नयनम् - १ अनुमानम् । २ वितर्कः । ३ यज्ञीयः पूतभृदाख्यः पात्र-
विशेष इति याज्ञिका आहुः । ४ ऊर्ध्वप्रापणमिति काव्यज्ञाः (बाच ० ) ।
५ संस्कारविशेष इति मौहूर्तिकाः ।
 
उन्नायकत्वम्-ज्ञापकत्वम् । अत्र ज्ञापकत्वं जनकज्ञानविषयत्वम् । यथा
पर्व घूमेन वह्निसाधने वह्निमपर्वतोन्नायकत्वं वह्निव्याप्यवत्पर्वतस्य ।
उन्नेयत्वम् - ज्ञाप्यत्वम् । अत्र ज्ञाप्यत्वं जन्यज्ञान विषयत्वमिति बोध्यम् ।
उन्मत्त: उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः
यथा पर्वते धूमेन वह्निसाधने वहिव्याप्यवत्पर्वतोन्नेयत्वं वह्निमत्पर्वतस्य ।
 
( मिताक्षरा अ० २ श्लो० ३२ ) ।
 
उपकारः -[क सहकारिलाभः । यथा घटाद्युत्पत्ती दण्डाद्युपकारः ।
 
-