2023-10-21 14:23:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१५४
 
न्यायकोशः ।
 
वर्तते ॥ इति ( पदार्थादर्शे ) ( वाच ० ) । [ ख ] अथ योस्योर्ध्वः सुषिः

स उदानः स वायुः स आकाश: ( छान्दो० उ० ३।१३।५ ) ।

 
<
उदारत्वम्>
सहकारिसंनिधिवशात्कार्यकारित्वम् ( सर्व० सं० पृ० ३६०

पातञ्ज० ) ।
 
-
 

 
<
उदासीनत्वम्>
विहित निषिद्ध एतदुभयविपरीतत्वम् । यथा उदासीनं वाक्यम्

इत्यादावुदासीनशब्दस्यार्थः । शिष्टं तु तटस्थशब्दव्याख्यानादौ दृश्यम् ।

 
<
उदाहरणम्>
( न्यायावयवः ) [क] साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त

उदाहरणम् ( गौ० १ । १ । ३६) । दृष्टान्तो दृष्टान्तवचनम् । दृष्टान्त-

कथनयोग्यावयव इत्यर्थ: ( गौ० वृ० १ । १ । ३६ ) । हेतावुक्ते कथमस्य

गमकत्वम् इत्याकाङ्क्षायां व्यातिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथ

म्यात् तत्प्रदर्शनायोदाहरणम् ( चि० २ पृ० ८० ) । व्याप्तिज्ञानमुदा

हरणस्य प्रयोजनम् ( त० दी० २ पृ० २२) । उदाहरणत्वं च

अनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनिय

तव्यापकत्वाभिमतसंबन्धबोधजनकशब्दत्वम् ( चि० २ अव०
 
PA
 
पृ०
 
८०) ।
 
• या

यद्वा
अवयवान्तरार्थानन्वितार्थकावयवत्वम् ( गौ० वृ० १/१/३६ ) ।

अथवा इतरार्थान्वितस्वार्थाबोध कन्यायावयवत्वम् ( दीधि ० २ पृ० १७७)।

तद्यथा यो यो धूमवान् स सोग्निमानिति शब्दवृत्त्यवयव विभाजकोपा

धिमत्त्वम् ( न्या० म० २ पृ० २३ २४ ) । [ख ] व्याप्तिप्रति

पादकं दृष्टान्तवचनम् ( त० दी० २ पृ० २२) । तदर्थश्च प्रकृत

हेतुमति प्रकृतहेतुव्यापकत्व विशिष्ट साध्यबोधकवाक्यम् । उदाहरणघटक-

साध्यपदान्निरूढलक्षणया हेतुव्यापकत्वविशिष्टस्य
 
साध्यस्य बाब 70
 
बोधनात्
 
२ १०
 

२२ – २३ ) । यथा पर्वते धूमेन वहिसाधने यो यो धूमवान्स साग्निमान्

यथा महानसः इति वाक्यमुदाहरणम् ( त० मा० २ पृ० ११) /

( चि० २ अव० पृ० ८० ) । उदाहरणं द्विविधम् । अन्वय्युदाहरणम्

उपनयाभिधान प्रयोजकजिज्ञासाजनकवाक्यमुदाहरणमित्यन्ये ।

व्यतिरेक्युदाहरणं चेति (गौ० वृ० १ । १ । ३५) (चि० २ १० ८०)/
 

[ ग ]
 
PHPT
 
उदाहरणस्य व्याप्तिप्रतिपत्तिपरत्वमक्षतमिति बोध्यम् (नील०