2023-10-21 14:20:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१५३
 
<उत्पादः>
[ क ] स्वाधिकरणसमयध्वंसान धिकरण समयसंबन्धः । [ख ]

तत्तत्समयवृत्तिध्वंस प्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसंबन्धः । यथा

धर्मादुत्पद्यते सुखम् दण्डाज्जायते घट इत्यादौ धातोरर्थः । अत्र तादृश-

संबन्धरूपधात्वर्थनिष्ठं जन्यत्वं पञ्चम्यर्थः । तथा च धर्मजन्यो यः स्वाधि-

करणसमयध्वंसानधिकरणसमयसंबन्धस्तद्वत्सुखम् इत्याकारको बोधः ।

वृत्तिकृतस्तु उत्पद्यत इत्यादौ प्रागभावप्रतियोगित्वरूपमेवोत्पत्तिमत्त्वं

धात्वर्थ इत्याहु: ( श० प्र० कार० पृ० ८१ ) ।
 

 
<
उत्पाद्यम्>
१ कार्यवदस्यार्थोनुसंधेयः । २ निर्वर्त्य इत्याख्यः कर्मविशेषः ।

इदं च प्रकृतिकर्मासमभिव्याहारे संपद्यते । प्रकृतिकर्म समभिव्याहारे तु

विकार्यम् इत्युच्यत इति विवेकः । शिष्टं तु निर्वर्त्य विकार्य इत्यादिशब्द-

व्याख्याने दृश्यम् ( ग० व्यु० का० २ पृ० ६५) ।
 

 
700
 

 
<
उत्सर्गः>
१ उत्सर्जनवदस्यार्थोनुसंधेयः । २ सामान्यशास्त्रमिति मीमांस-

कादयो वदन्ति । तल्लक्षणं तु बलवद्वाधकापोद्यत्वम् । अत्रायं नियमः

अपवादाभावे उत्सर्गप्रवृत्तिः इति । यथा न हिंस्यात्सर्वा भूतानीति

शास्त्रमुत्सर्गः । अस्य यागीयहिंसायां न प्रवृत्तिः । तत्र पशुमालमेत

इत्यपवादसत्त्वात् ।
 
20
 

 
<
उत्सर्गसमितिः>
कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले । यत्नाद्यदुत्सृजेत्साधुः

सोत्सर्गसमितिर्भवेत् ॥ ( सर्व० सं० पृ० ७९ आई० ) ।

 
<
उत्सर्जनम्>
१ [क] स्वानुयोगिकप्राप्तवस्तुप्रतियोगिकसंबन्धविरहेच्छा ।

यथा उत्सृजति धनं देवदत्त इत्यादौ धात्वर्थः । अत्र स्वपदार्थस्तु

उत्सर्जनकर्ता देवदत्तादिः । [ख ] त्यागः । २ कर्मविशेष इति
 

श्रोत्रिया वदन्ति ।
 
200
 

 
<
उदानः-->
(वायुः ) [क] अन्नादेरूर्ध्वनयनादुदानः ( सि० च० १

पृ० ८) (दि० १/२ पृ० ८५) । अत्रोक्तम् स्पन्दयत्यधरं वक्रं

गात्रनेत्रप्रकोपनः । उद्वेजयति मर्माणि उदानो नाम
मारुतः ॥
विद्युत्पावकवर्णः स्यादुत्थानासनकारकः । पादयोर्हस्तयोश्चापि सर्वसंभिषु
 
TER
 
मारुतः ॥
 

२० न्या० को०