2023-10-21 14:18:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१५२
 
न्यायकोशः ।
 
ध्वंस प्रतियोगिकालावृत्तित्वविशिष्टस्व वृत्तित्वम् । इदं च महाप्रलये क्षण-

व्यवहारानङ्गीकारेपि महाप्रलयस्योत्पत्तिः संपद्यत इत्यभिप्रायेणोक्तमिति

( विज्ञेयम् ( दि० १ पृ० ९३ ) । [ ङ ] तदधिकरणक्षणावृत्तित्व

व्याप्यस्ववृत्तिध्वंसप्रतियोगिताकसमयवृत्तित्वम् । तत्पदमुत्पत्स्य मानपदार्थप

रम्। तथा च
दधिकरणक्षणावृत्तित्वस्य व्याप्या यत्समयवृत्तिध्वंस
 
तथा
 
impa
 

प्रतियोगिता तस्य तत्समयवृत्तित्वम् इति ( राम० ११ १२ १९२ ) । इदं ।
 
47721
 

च महाप्रलयस्यापि क्षणत्वं वर्तते इत्यभिप्रायेणोक्तमिति विज्ञेयम् ( दिन०

१ पृ० ९२ ) । [च ] यत्समयवृत्तिध्वंसप्रतियोगिताव्यापकं तत्कार्या

धिकरणक्षणवृत्तित्वं तत्समयवृत्तित्वमिति केचित् ( दि०) । सा द्विविधा ।
 
am
www.y
 

स्वत उत्पत्तिः परत उत्पत्तिश्च । तत्राद्या यथा मीमांसकनये स्वतः

प्रमात्वस्योत्पत्तिः । द्वितीया यथा घटादीनामुत्पत्तिः । सकलकारणयोग

पद्यमुत्पत्तिरिति केचित् । आत्मन उत्पत्तिस्तु देहसंगतिः ( ता० २०
 
Fampi
 
र०
श्लो० २१ ) ।
 

 
<
उत्पत्तिकालावच्छिन्नत्वम्>
स्वाधिकरणसमयध्वंसवदन्यकालसंबन्धः (ग०)

पक्ष० पृ० ३९) । यथा यदा यो घट उत्पद्यते तदा तस्य घटत्य,

देरुत्पत्तिकालावच्छिन्नत्वम् । अथ वा तत्तदधिकरणसमयध्वंसाधिकरण

तत्कालावच्छिन्नत्वम् । यथा वा द्वितीयक्षणपर्यन्तावस्थायिनोपि ज्ञाना

समयसंबन्धानामभावकूटविशिष्टत्वम् (ग० २ प० पृ० ४१ ) ।

 
<
उत्पत्तिविधिः->
( विधिः ) कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः

( मी० न्या० पृ० ९) । तत्स्वरूपं द्विविधम् । द्रव्यं देवता चेति ।

"यथा दर्शपूर्णमासे आग्नेयोष्टाकपालो भवति इत्यादि । ज्योतिष्टोमे सोमेन
 
1
 

यजेत इति । क्वचित्
 
ॐ विधित्वमस्त्येव ( म० प्र० ४ पृ० ६२ ) ।
 
अग्निहो
 
त्रं जुहोतीत्यादौ रूपाश्रवणेप्युत्पत्ति
 

विधित्वमस्त्येव ( म० प्र० ४ पृ० ६२ ) ।
 
<
उत्पातः - >
शुभाशुभसूचको भूतविकारः । यथा वाताय कपिला विद्युदि

त्यादौ । अत्र ज्ञाप्यज्ञापकभावश्चतुयेर्थः । तथा च वातरूपज्ञाप्यज्ञापिका

कपिला विद्युत् इति बोध: ( ल० म० सुब० का० ४ पृ० १०५)। ।