This page has not been fully proofread.

१५२
 
न्यायकोशः ।
 
ध्वंस प्रतियोगिकालावृत्तित्वविशिष्टस्व वृत्तित्वम् । इदं च महाप्रलये क्षण-
व्यवहारानङ्गीकारेपि महाप्रलयस्योत्पत्तिः संपद्यत इत्यभिप्रायेणोक्तमिति
। ( विज्ञेयम् ( दि० १ पृ० ९३ ) । [ ङ ] तदधिकरणक्षणावृत्तित्व
★ व्याप्यस्ववृत्तिध्वंसप्रतियोगिताकसमयवृत्तित्वम् । तत्पदमुत्पत्स्य मानपदार्थप
दधिकरणक्षणावृत्तित्वस्य व्याप्या यत्समयवृत्तिध्वंस
 
तथा
 
impa
 
प्रतियोगिता तस्य तत्समयवृत्तित्वम् इति ( राम० ११ १२ १९२ ) । इदं ।
 
47721
 
च महाप्रलयस्यापि क्षणत्वं वर्तते इत्यभिप्रायेणोक्तमिति विज्ञेयम् ( दिन०
१ पृ० ९२ ) । [च ] यत्समयवृत्तिध्वंसप्रतियोगिताव्यापकं तत्कार्या
•धिकरणक्षणवृत्तित्वं तत्समयवृत्तित्वमिति केचित् ( दि०) । सा द्विविधा ।
 
am
www.y
 
स्वत उत्पत्तिः परत उत्पत्तिश्च । तत्राद्या यथा मीमांसकनये स्वतः
प्रमात्वस्योत्पत्तिः । द्वितीया यथा घटादीनामुत्पत्तिः । सकलकारणयोग
पद्यमुत्पत्तिरिति केचित् । आत्मन उत्पत्तिस्तु देहसंगतिः ( ता० २०
 
Fampi
 
श्लो० २१ ) ।
 
उत्पत्तिकालावच्छिन्नत्वम् – स्वाधिकरणसमयध्वंसवदन्यकालसंबन्धः (ग०)
पक्ष० पृ० ३९) । यथा यदा यो घट उत्पद्यते तदा तस्य घटत्य,
देरुत्पत्तिकालावच्छिन्नत्वम् । अथ वा तत्तदधिकरणसमयध्वंसाधिकरण
तत्कालावच्छिन्नत्वम् । यथा वा द्वितीयक्षणपर्यन्तावस्थायिनोपि ज्ञाना
समयसंबन्धानामभावकूटविशिष्टत्वम् (ग० २ प० पृ० ४१ ) ।
उत्पत्तिविधिः-( विधिः ) कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः
( मी० न्या० पृ० ९) । तत्स्वरूपं द्विविधम् । द्रव्यं देवता चेति ।
"यथा दर्शपूर्णमासे आग्नेयोष्टाकपालो भवति इत्यादि । ज्योतिष्टोमे सोमेन
 
1
 
यजेत इति । क्वचित्
 
ॐ विधित्वमस्त्येव ( म० प्र० ४ पृ० ६२ ) ।
 
होत
 
रूपाश्रवणेप्युत्पत्ति
 
उत्पातः - शुभाशुभसूचको भूतविकारः । यथा वाताय कपिला विद्युदि
त्यादौ । अत्र ज्ञाप्यज्ञापकभावश्चतुयेर्थः । तथा च वातरूपज्ञाप्यज्ञापिका
कपिला विद्युत् इति बोध: ( ल० म० सुब० का० ४ पृ० १०५)। ।