2023-10-21 14:11:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१५१
 
1
 
"१
वक्तव्यतया मणिविशेषान्तरस्योत्तेजकत्वमुपपद्यत इति । २ प्रेरकत्वमिति

काव्यज्ञाः । ३ उद्दीपकत्वं वर्धकत्वं वेत्याधुनिका लौकिकजना वदन्ति ।

 
<
उत्थाप्याकाङ्क्षा>
( आकाङ्क्षा) अनियताकाङ्क्षा ( राम० १ पृ० २ ) ।

यथा उदयति चन्द्रः कुमुदबान्धव इत्यादौ चन्द्रपदकुमुदबान्धवपदयोर-

नियताकाङ्क्षा । अत्र समाप्तपुनरात्तत्वाख्यः काव्यदोषोस्तीति बोध्यम् ।

 
<
उत्थिताकाङ्क्षा>
(आकाङ्क्षा) नियताकाङ्क्षा । यथा क्रियाकारकपदानां

परस्पराकाङ्क्षा । यथा वा पुत्रादिपदानां पित्रादिरूप प्रतियोगिवाचकपदा-

काङ्क्षा नियता ( राम० १५० २) । नियतत्वं चात्रावश्यंभावित्वम् ।

अत्र च पुत्र इत्युक्ते कस्येत्या काहोदयादेवदत्तस्येत्याद्यपेक्ष्यत इति देवदत्त -

स्येति षष्ठ्यन्तपदपुत्रपदयोर्नियताकाङ्केति ज्ञेयम् ।
●eshwa

 
<
उत्पत्तिः>
अत्र बहवो विप्रतिपद्यन्ते । असतः सदुत्पद्यते इति बौद्धाः ।

प्रागुत्पत्तेरसत् कारणव्यापारादुत्पद्यते इति नैयायिकाः । सत एव कार-

णात् असतः कार्यस्य कारणव्यापारात् उत्पत्तिरित्यर्थः । उत्पत्तेः प्रागसत्

उत्पत्तिकाले च सदिति तद्भावः । प्रागुत्पत्तेः सदपि कारणव्यापारादभि-

व्यज्यते इति सांख्याः मायावादिवेदान्तिनश्च प्रतिपेदिरे । यथा पीडनेन

तिलेषु तैलस्य अवघातेन धान्येषु तण्डुलानाम् दोहनेन सौरमेयीषु

पयसः अभिव्यक्तिः तद्वत् । तत्र सतो विवर्त इति
मायावादिनां
पयसः अभिव्यक्तिः तद्वत् । तत्र सतो विवर्त इति ...

मतम् । परिणाम इति सांख्यानां मतम् ( वाच०) । उत्पत्तिशब्दार्थस्तु
 
11
 

आद्यक्षणसंबन्धः । स च [ क ] स्वाधिकरणक्षणावृत्तिप्रागभावप्रति-

योगिक्षणसंबन्धः
 
( आत्मत
 
व्या० शिरोम०
 
) ( वाच० ) ( म०
 

प्र० १ पृ० १२ ) ( त० प्र० १ ) । [ ख ] स्वाधिकरणक्षणध्वंसान-
GANES

धिकरणक्षणसंबन्धो वा ( म० प्र० १ १० १२ ) ( त० प्र० १ ) ।

यथा उत्पत्तिमानभावो ध्वंस इत्यादावुत्पत्तिः । यथा वा घटपटादे-

रुत्पत्तिः । स्वम् उत्पद्यमानत्वेनाभिमतं घटादि ( म०प्र० १ पृ० १२) ।

क्षणश्च स्वजन्यविभागप्रागभावावच्छिन्नं कर्म । अत्र स्वम् उत्पद्यमानं

कर्म ( म० प्र० पृ० १२) । [ग] यो यत्कालवृत्तिध्वंसयोग्यवृत्ति-

स्तस्य तद्वृत्तित्वमुत्पत्तिरित्यपि केचित् ( दीधि० २) । [घ ] स्ववृत्ति-
G07
 
+