This page has not been fully proofread.

न्यायकोशः ।
 
१५१
 
1
 
"१ वक्तव्यतया मणिविशेषान्तरस्योत्तेजकत्वमुपपद्यत इति । २ प्रेरकत्वमिति
काव्यज्ञाः । ३ उद्दीपकत्वं वर्धकत्वं वेत्याधुनिका लौकिकजना वदन्ति ।
उत्थाप्याकाङ्क्षा – ( आकाङ्क्षा) अनियताकाङ्क्षा ( राम० १ पृ० २ ) ।
यथा उदयति चन्द्रः कुमुदबान्धव इत्यादौ चन्द्रपदकुमुदबान्धवपदयोर-
नियताकाङ्क्षा । अत्र समाप्तपुनरात्तत्वाख्यः काव्यदोषोस्तीति बोध्यम् ।
उत्थिताकाङ्क्षा – (आकाङ्क्षा) नियताकाङ्क्षा । यथा क्रियाकारकपदानां
परस्पराकाङ्क्षा । यथा वा पुत्रादिपदानां पित्रादिरूप प्रतियोगिवाचकपदा-
काङ्क्षा नियता ( राम० १५० २) । नियतत्वं चात्रावश्यंभावित्वम् ।
अत्र च पुत्र इत्युक्ते कस्येत्या काहोदयादेवदत्तस्येत्याद्यपेक्ष्यत इति देवदत्त -
स्येति षष्ठ्यन्तपदपुत्रपदयोर्नियताकाङ्केति ज्ञेयम् ।
●eshwa
उत्पत्तिः— अत्र बहवो विप्रतिपद्यन्ते । असतः सदुत्पद्यते इति बौद्धाः ।
प्रागुत्पत्तेरसत् कारणव्यापारादुत्पद्यते इति नैयायिकाः । सत एव कार-
णात् असतः कार्यस्य कारणव्यापारात् उत्पत्तिरित्यर्थः । उत्पत्तेः प्रागसत्
उत्पत्तिकाले च सदिति तद्भावः । प्रागुत्पत्तेः सदपि कारणव्यापारादभि-
व्यज्यते इति सांख्याः मायावादिवेदान्तिनश्च प्रतिपेदिरे । यथा पीडनेन
तिलेषु तैलस्य अवघातेन धान्येषु तण्डुलानाम् दोहनेन सौरमेयीषु
मायावादिनां
पयसः अभिव्यक्तिः तद्वत् । तत्र सतो विवर्त इति ...
मतम् । परिणाम इति सांख्यानां मतम् ( वाच०) । उत्पत्तिशब्दार्थस्तु
 
11
 
आद्यक्षणसंबन्धः । स च [ क ] स्वाधिकरणक्षणावृत्तिप्रागभावप्रति-
योगिक्षणसंबन्धः
 
( आत्मत
 
व्या० शिरोम०
 
) ( वाच० ) ( म०
 
प्र० १ पृ० १२ ) ( त० प्र० १ ) । [ ख ] स्वाधिकरणक्षणध्वंसान-
GANES
धिकरणक्षणसंबन्धो वा ( म० प्र० १ १० १२ ) ( त० प्र० १ ) ।
यथा उत्पत्तिमानभावो ध्वंस इत्यादावुत्पत्तिः । यथा वा घटपटादे-
रुत्पत्तिः । स्वम् उत्पद्यमानत्वेनाभिमतं घटादि ( म०प्र० १ पृ० १२) ।
क्षणश्च स्वजन्यविभागप्रागभावावच्छिन्नं कर्म । अत्र स्वम् उत्पद्यमानं
कर्म ( म० प्र० पृ० १२) । [ग] यो यत्कालवृत्तिध्वंसयोग्यवृत्ति-
स्तस्य तद्वृत्तित्वमुत्पत्तिरित्यपि केचित् ( दीधि० २) । [घ ] स्ववृत्ति-
G07
 
+