This page has not been fully proofread.

१५०
 
न्यायकोशः ।
 
ॐॐवाक्यम् । यथा कोसि इति पृष्टे देवदत्तोहमस्मि इति वचनम् ।
तत्रोक्तम् प्रश्नश्चोद्यधिया पृच्छा तस्य खण्डनमुत्तरम् इति ( वाच० ) ।
- जिज्ञासितविषयावेदकं वाक्यमुत्तरमिति केचित् (वाच७) । शाब्दिकास्तु
-यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्मा-
! (वच्छिन्ने जिज्ञासिततद्धर्मावच्छिन्नसंबन्धबोधकवाक्यम् । यदाहुः जिज्ञासि -
तपदार्थस्य संसर्गो येन गम्यते । तदुत्तरमिति प्रोक्तमन्यदाभासशब्दि-
तम् ॥ इति । यथा कस्माद्धटः इति प्रश्नस्य दण्डाद्घटः इत्युत्तरम् ।
अत्र घटत्वावच्छिन्ने जिज्ञासितधर्मावच्छिन्नसंबन्धबोधकस्य कस्माद्धट
इति प्रश्नवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्नस्य हेतुहेतु-
मद्भावबोधकं दण्डाद्दटः इति वाक्यमुत्तरम् ( वै० सा० ५० १०
 
१८७ ) इति वदन्ति । ३ सिद्धान्तानुकूलत पन्या सरूपोधिकरण विशेष
इति मीमांसका वेदान्तिनश्चाहुः । ४ राजसमीपे वादिकृताभियोगापनोद
कमुत्तराख्यं व्यवहाराङ्गमिति व्यवहारज्ञाः । पक्षस्य व्यापकं सारसंदि
ग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥ ( मिता-
क्षरा अ० २ श्लो० ७) । ५ नक्षत्रविशेष इति ज्योतिर्विद आहुः ।
 
उत्तरमीमांसा – ( दर्शनम् ) उत्तरस्य वेदशेषभागस्योपनिषद्वपस्य मीमांसा
जिज्ञासा ( ब्र० सू० १।१।१ ) इत्यारभ्य अनावृत्तिः शब्दात् (ब्र०
पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मको विचारः । यथा अथातो ब्रह्म-
सू० ४।४।२३ ) इत्येतावान् अध्यायचतुष्टयात्मको सत्यवतीसुतव्यास-
कृतो ब्रह्मविचारः ( वाच ० ) ।
 
Se
 
उत्तीर्णता - १ निश्चयः (ग० सव्य ० ) । यथा असाधारण्योत्तीर्णतादशाया-
मित्यादौ । २ नद्यादेः पारगमनकर्मत्वमुत्तीर्णत्वमिति काव्यज्ञा वदन्ति ।
उत्तेजकत्वम् - १ प्रतिबन्धककोटिप्रविष्टाभावप्रतियोगित्वम् । यथा दा
 
प्रति मणिविशेषस्योत्तेजकत्वम् । अत्र च दाहं प्रति मणिविशेषस्य प्रति
बन्धकत्वं लोकसिद्धम् । परंतु मणिविशेषान्तरस्य च समवधाने द
उपत्या मणिविशेषान्तराभाषविशिष्टमणिविशेषस्यैव प्रतिबन्धकत्वस्यावश्य