न्यायकोशः /202
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
त्वं
कचिद्दया कचिच्च दानादीनि । यथा त्वं ब्राह्मणः त्वं दयाशीलः
दाता पुत्री इत्यादौ दयादीनामप्युत्कर्षत्वम् । अत्र दयादिष्वप्युत्कर्षव्यवहा
रेण तेषामप्युत्कर्षपदवाच्यत्वमिति बोध्यम् ( मू० म० १ पृ० १०३ ) ।
यथा वा त्वमेव राजा इत्यादौ । अत्र च कश्चिद्दरिद्रो याचक उदार
धनिकं ग्राम्यप्रभुं वाभ्येत्य त्वमेव राजेति अन्ययोगव्यवच्छेदेन राज,
भावमारोपयतीति लोकप्रसिद्धिद्रष्टव्या ।
www
<उत्कर्षसमः
( जाति: ) [ क ] दृष्टान्तधर्मं साध्येन समासजनुक -
समः । यदि क्रियाहेतुगुणयोगाल्लोष्टव त्क्रियावानात्मा लोष्टवदेव स्पर्शवा
नपि प्राप्नोति । अथ न स्पर्शवान् लोष्टवत्क्रियावानपि न प्राप्नोति ॥
विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या० ५११४ ) । [ख]
व्यातिमपुरस्कृय पक्षदृष्टान्तान्यतरस्मिन्साध्यसाधनान्यतरेणाविद्यमानधर्म-
प्रसञ्जनम् । यथा शब्द अनित्यः कृतकत्वादिति स्थापनायामनित्यत्वं ।
कृतकत्वं घटे रूपसहचरितम् । अतः शब्दोपि रूपवान्स्यात् । तथा च
.
बोध्यम् ( गौ० वृ० ५११४ ) । [ग] परोक्तसाधनादेव तदव्यापक
विवक्षितविपरीतसाधनाद्विशेषविरुद्धो हेतुः । विरुद्धदेशनाभासोयमिति ।
धर्मस्य पक्ष आपादनम् । यथा शब्द अनित्यः कृतकत्वाद्धटवदित्यादी ।
"
तेनैव हेतुना शब्दो घटवत्सावयवः स्यात् इति ( नील० पृ० ४३ ) ।
कश्चिदेवमाह यदि कृतकत्वेन हेतुना शब्दो घटवदनित्यः स्यात्तहिं ।
<उत्क्षेपणत्वम्
उत्क्षेपणत्वं नामोर्ध्वदेशसंयोगासमवायिकारणसमवेत
maty
Ma
परजाति: ( सर्व० सं० पृ० २२० औलु० ) । अथ वा ऊर्ध्वदेशसं
• परजाति: ( सर्व० सं० पृ० २२० औंल० ) । अथ वा
योगजनकक्रियानुकूलक्रियात्वम् ( त० व० ) ।
<उत्क्षेपणम्
( कर्म ) [क] ऊर्ध्वदेशसंयोगहेतुः कर्म ( त० सं० )
( त० कौ० पृ० २०) (त० व० पृ० २४० ) । यथा
इ
मुसलमुत्क्षिपतीयादावुत्क्षेपणम् । आत्मनः संयोगप्रयत्नाभ्यां प्रथमतो
हस्तकर्म भवति । तत्र हस्तः समवायिकारणम् । प्रयत्नवदात्मसंयोगो
समवायिकारणम् । प्रयत्नश्च निमित्तकारणम् ( त० व० परि० १६/
पृ० २४१ ) । ततो मुसलोत्क्षेपणे मुसलं समवायिकारणम् / प्रयत्न
Wate