This page has not been fully proofread.

न्यायकोशः ।
 
१४७
 
ईश्वरः– परमात्मवदस्यार्थोनुसंधेयः । ईश्वरश्चिदचिच्चेति पदार्थंत्रितयं हरिः ।
। ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः ॥ ( सर्व० सं० पृ० ९२
रामानु० ) । अत्र हरिः ईश्वरः इति संबन्धः ।
ईश्वरप्रणिधानम् – अभिहिताना मन मिहितानां च सर्वासां क्रियाणां परमेश्वरे
-
परमगुरौ फलानपेक्षया समर्पणम् ( सर्व० सं० पृ० ३७१ पातञ्ज० ) ।
ईषा – शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः (जै० न्या० अ० २
पा० ३ अधि० ५ ) ।
 
-
 
उ.
 
उच्चरितत्वम्—उच्चारणं च शब्दोत्पत्त्यनुकूलव्यापारः । तज्जन्यत्वमुच्चरित-
त्वम् । शाब्दिकास्तु ताल्वोष्ठसंयोगादिजन्या भिव्यक्ति विशिष्टत्वम् । यथा
वर्णमुच्चारयतीत्यादौ वर्णस्योच्चरितत्वम् इत्याहुः (वै० सा० स्फोट ०
 
पृ० ४४४ ) ।
 
उच्चारणम् – कण्ठताल्वाद्यभिघातेन शब्दजनकव्यापारः । यथा वेदोच्चारण-
कार्यार्थमयुक्तं तत्त्वया धृतम् ( भार० व० अ० २१४ ) इत्यादौ ।
तत्प्रकारस्तु आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः
कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूर्यमिहतो वक्रमा-
पद्य मारुतः । वर्णान् जनयते तेषां विभागः पञ्चधा मतः ॥ इति
 
शिक्षोक्तशावयः ( वाच० ) । अधिकं तु अनुमान चिन्तामण्यादौ
 
द्रष्टव्यम् ।
 
उच्छ्वासः- प्राणवायोर्व्यापारविशेषः
निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम्
उत्कर्षः–१ अविद्यमानधर्मारोपः ।
 
( गौ० वृ० ३।१।३० ) । यथा
(गौ० ३।१।३०) इत्यादावुच्छ्वासः ।
या उत्कर्षसमो जातिरित्यादा-
7
 
बुत्कर्षः ।
कः ( गौ० ० ५/११४ ) । २ गुणनिष्ठजातिविशेषः । स च
रूपत्वादिव्याप्यो रूपादिनिष्ठः । एतन्मूलिकैव अयमस्मादुत्कृष्टः
इति प्रतीतिः । कालखात्मदिशां साधर्म्ये परममहत्त्वे परममहत्त्वत्वं
 
चापकर्षानाश्रयपरिमाणत्वमित्यत्रापकर्षोप्येवमेव । ३ उत्कृष्टः इति
• प्रतीतिसाक्षिको द्रव्यादिवृत्तित्वेन ज्ञांयमानो धर्मः । यथा उत्कर्षवत्तया