2023-10-20 19:08:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१४६
 
न्यायकोश: ।
 
पृ० १८ ) । द्वितीयः अलौकिकः संनिकर्षश्च त्रिविधः । सामान्य-

लक्षणः ज्ञानलक्षण: योगजधर्मश्चेति ( भा० प० १ श्लो० ६३-६५)

( मु० १ पृ० ११९ - १२२ ) । स चालौकिकप्रत्यक्षे कारणम् ।

एतन्त्रितयसंनिकर्षः षडिन्द्रियसहकारीति संप्रदायविदः । मनस एव

सहकारीति शूलपाणिमिश्रा: ( त० कौ० १ पृ० ९) इत्युक्तमेव ।

 
<
इष्टत्वम्>
[क ] इच्छाविषयत्वम् । यथा इष्टदेवता नमस्कारलक्षणं मङ्गलं

शिष्यशिक्षार्थी निबध्नन् ( त० दी० पृ० १ ) इत्यादा विष्टत्वम् । [ख]
 

समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । यथा ओदनकामः पचेत
स्वर्गकामो यजेतेत्यादावोदनस्वर्गरूपफलयोरिष्टत्वम् ( ग० व्यु०

पृ० १३९ ) ।
 
समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । यथा ओदनकामः पचेत /
 
SAF
० ल०
 
cris
 

 

 
<
यो – .>
 
<ईर्या>
( समितिः ) लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षा ।

र्थमालोक्य गतिरीर्या मता सताम् ॥ ( सर्व० सं० १० ७९ आई०) ।

 
<
ष्यो – र्ष्या>
( दोषः ) १ अक्षान्तिः । सा च परोत्कर्षासहिष्णुता ॥
 
या शत्रव
 

ईर्ष्यतीत्यादौ धात्वर्थः ( ग० व्यु० का० ४ पृ० ९६ ) / अथवा /

साधारणे वस्तुनि परस्वत्वात्तग्रहीतरि द्वेषः । यथा दुरन्तदायादा नामीय

( गौ० वृ० ४ । १ । ३ ) । शाब्दिकास्तु उत्कर्षविरोधिधर्मारोपानुक

"लव्यापारजनकश्चित्तवृत्तिविशेषः । यथा हरये ईर्ष्यतीत्यादौ इत्या

( ल० म० सुब० का० पृ० १०३) । ईर्ष्या च कोपमूलिका

तत्रोक्तम् पैशुन्यं सहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं

पारुष्यं क्रोधजोपि गणोष्टकः ॥ ( मनु० ७१४८ ) इति ।

गोचरो द्वेष इति परमार्थः । तथा च तादृशद्वेषविषयस्य पर

क्रुद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ( पा० सू० ९/४/३७ ) इत्यनेन

यथा शिष्यायेर्ष्यतीत्यत्र धात्वर्थः । अत्र शिष्यानिष्टं नोपेक्षत इति
 

वाक्यार्थ: ( श० प्र० पृ० ८७ ) ।
 

 
परोत्कर्ष