2023-10-20 19:05:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१४५
 
समवायस्य अयं शब्दाभाववान् इति शब्दाभावस्य च ग्रहः । तत्र

श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेषणत्वादिति भावः

। ( न्या० म० १ पृ० ८) (त० कौ० १ पृ० ९) । अभावस्य

स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं तदेव विशेषणत्वम् न तु तदर्थान्तरम्

इति विज्ञेयम् ( त० भा० पृ० २० ) । इन्द्रियसंबद्ध विशेषणतया तु

इदं कपालं घटसमवायवत् इति घटादिसमवायस्य इदं भूतलं घटाभाव-
Chimlymy Froyalma

वत् इति घटाभावस्य च ग्रहः ( त० कौ० १ पृ० ९ ) ( न्या० म०

पृ० ८ ) । तचक्षुरादिसंयुक्ते कपाले घटसमवायस्य चक्षुरादिसंबद्धे

भूतले घटाभावस्य च विशेषणत्वादिति भावः ( न्या० म० १ पृ० ८ )

( त० कौ० १ पृ० ९ ) । अत्र इन्द्रियसंनिकर्षस्य संयोगादेर्बहुविधस्य


प्रवेशात्तादृशविशेषणतापि बहुविधा । तद्यथा इन्द्रियसंयुक्त विशेषणता

इन्द्रियसंयुक्तसमवेतविशेषणता इन्द्रियसंयुक्तसमवेतसमवेत विशेषणता
 
2
 

इन्द्रियसमवेतविशेषणता इन्द्रियसमवेत समवेतविशेषणता इन्द्रियविशेषण
- इन्द्रियसमवेतविशेषणता इन्द्रियसमवेत समवेतविशेषणता इन्द्रियविशेषण-

(विशेषणतेत्यादिः । तत्र आद्यया इन्द्रियसंयुक्तविशेषणतया भूतले घटा-

भावग्रहः । द्वितीयया घटरूपादौ रसत्वाभावग्रहः । तृतीयया रूपत्वादौ
away anony
 
DIFF
 
२३
 

रसत्वाभावग्रहः । चतुर्थ्या श्रोत्रसमवेते ककारे खत्वाभावग्रहः । पञ्चम्या
Wate

खत्वाभावग्रहः । षष्ठ्या श्रोत्रे विशेषणीभूतककाराभावे खत्वाभाव -

ग्रहः इति बोध्यम् ( म० प्र० १ पृ० १० - ११ ) । एवं विशेष्यतापि

द्विविधा । इन्द्रियविशेष्यता इन्द्रियसंबद्धविशेष्यता च । तत्रेन्द्रियविशेष्य-
amahabh

तया इह शब्दसमवायोस्ति इति शब्दसमवायस्य इह शब्दो नास्ति इति

शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च
momsa

विशेष्यत्वादिति भावः । इन्द्रियसंबद्धविशेष्यतया तु इह कपाले घट-
www.m

समवायोस्ति इति घटादिसमवायस्य इह भूतले घटो नास्ति इति घटा-

भावस्य च ग्रहो भवतीति । तत्र चक्षुरादिसंयुक्ते कपाले घटसमवायस्य

तादृशे चक्षुरादिसंयुक्ते च भूतले घटाभावस्य च विशेष्यत्वादित्यवधेयम् ।

तत्र षड्डिधसंनिकर्षमध्ये विशेषणविशेष्यभावो न विषयतारूपः । अपि

तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभाव एवेति विज्ञेयम् ( नील० १
 
mo
 
DETE
 

१९ न्या० को०
 
A
 
101