This page has not been fully proofread.

न्यायकोशः ।
 
१४५
 
समवायस्य अयं शब्दाभाववान् इति शब्दाभावस्य च ग्रहः । तत्र
श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेषणत्वादिति भावः
। ( न्या० म० १ पृ० ८) (त० कौ० १ पृ० ९) । अभावस्य
स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं तदेव विशेषणत्वम् न तु तदर्थान्तरम्
इति विज्ञेयम् ( त० भा० पृ० २० ) । इन्द्रियसंबद्ध विशेषणतया तु
इदं कपालं घटसमवायवत् इति घटादिसमवायस्य इदं भूतलं घटाभाव-
Chimlymy Froyalma
वत् इति घटाभावस्य च ग्रहः ( त० कौ० १ पृ० ९ ) ( न्या० म०
पृ० ८ ) । तचक्षुरादिसंयुक्ते कपाले घटसमवायस्य चक्षुरादिसंबद्धे
भूतले घटाभावस्य च विशेषणत्वादिति भावः ( न्या० म० १ पृ० ८ )
( त० कौ० १ पृ० ९ ) । अत्र इन्द्रियसंनिकर्षस्य संयोगादेर्बहुविधस्य

प्रवेशात्तादृशविशेषणतापि बहुविधा । तद्यथा इन्द्रियसंयुक्त विशेषणता
इन्द्रियसंयुक्तसमवेतविशेषणता इन्द्रियसंयुक्तसमवेतसमवेत विशेषणता
 
2
 
- इन्द्रियसमवेतविशेषणता इन्द्रियसमवेत समवेतविशेषणता इन्द्रियविशेषण-
। (विशेषणतेत्यादिः । तत्र आद्यया इन्द्रियसंयुक्तविशेषणतया भूतले घटा-
भावग्रहः । द्वितीयया घटरूपादौ रसत्वाभावग्रहः । तृतीयया रूपत्वादौ
away anony
 
DIFF
 
२३
 
रसत्वाभावग्रहः । चतुर्थ्या श्रोत्रसमवेते ककारे खत्वाभावग्रहः । पञ्चम्या
Wate
खत्वाभावग्रहः । षष्ठ्या श्रोत्रे विशेषणीभूतककाराभावे खत्वाभाव -
ग्रहः इति बोध्यम् ( म० प्र० १ पृ० १० - ११ ) । एवं विशेष्यतापि
द्विविधा । इन्द्रियविशेष्यता इन्द्रियसंबद्धविशेष्यता च । तत्रेन्द्रियविशेष्य-
amahabh
तया इह शब्दसमवायोस्ति इति शब्दसमवायस्य इह शब्दो नास्ति इति
शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च
momsa
• विशेष्यत्वादिति भावः । इन्द्रियसंबद्धविशेष्यतया तु इह कपाले घट-
www.m
• समवायोस्ति इति घटादिसमवायस्य इह भूतले घटो नास्ति इति घटा-
भावस्य च ग्रहो भवतीति । तत्र चक्षुरादिसंयुक्ते कपाले घटसमवायस्य
तादृशे चक्षुरादिसंयुक्ते च भूतले घटाभावस्य च विशेष्यत्वादित्यवधेयम् ।
तत्र षड्डिधसंनिकर्षमध्ये विशेषणविशेष्यभावो न विषयतारूपः । अपि
तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभाव एवेति विज्ञेयम् ( नील० १
 
mo
 
DETE
 
१९ न्या० को०
 
A
 
101