2023-10-20 19:04:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१४४
 
न्यायकोशः ।
 
इह भूतले घटो नास्ति इति अभावप्रत्यक्षे च विशेषणविशेष्य भावः

(विशेषणता विशेष्यता च ) इति ( त० सं ) ( त० मा० पृ० ६-८)

(सि० च० पृ० २२ ) । तथाहि । यदा चक्षुःसंयुक्ते भूतले घटाद्यभावो

गृह्यते इह भूतले घटो नास्ति इति तदा चक्षुःसंयुक्तस्य भूतल

घटाद्यभावो विशेष्यम् । भूतलं विशेषणम् । अत्र चक्षुःसंयुक्त विशेष्यत्वं ।

संनिकर्षः । यदा मनःसंयुक्त आत्मनि सुखाद्यभावो गृह्यते अहं सुखा-

दिरहितः इति तदा मनःसंयुक्तस्यात्मनः सुखाद्यभावो विशेषणम् । अत्र

मनःसंयुक्त विशेषणत्वं संनिकर्षः । यदा च श्रोत्रसमवेते गकारे घत्वाभावो

गृह्यते गकारो घत्वाभाववान् इति तदा श्रोत्रसमवेतस्य गकारस्य धत्वा

भावो विशेषणम् । अत्र श्रोत्रसमवेत विशेषणत्वं संनिकर्षो ज्ञेयः । तदेवं

संक्षेपतः पञ्चविधान्यतमसंबन्धसंबद्ध विशेषणविशेष्यभावलक्षणेनेन्द्रियार्थ

संनिकर्षेणाभाव इन्द्रियेण गृह्यते । एवं समवायोपि चक्षुःसंबद्धस्य

तन्तोर्विशेषणभूतः पटसमवायो गृह्यते इह तन्तुषु पटसमवायः इति

(त० मा० १ पृ० ८) । तत्र विशेषणता नानाविधा । तथाहि भूत ।

९. लादौ घटाभावः संयुक्तविशेषणतया गृह्यते । संख्यादौ रूपाद्यभावः ।
 

संयुक्तसमवेत विशेषणतया गृह्यते । संख्यात्वादौ रूपाद्यभावः
 
संयुक्त
 

समवेतसमवेतविशेषणतया गृह्यते । शब्दाभावः केवलश्रोत्रावच्छिन्न

विशेषणतया गृह्यते । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषण-

तथा गृह्यते । एवं कत्वाद्यवच्छिन्नाभावे खत्वाभावादिकं श्रोत्रावच्छिन्न

विशेषणविशेषणतया गृह्यते । घटाभावादौ घटाभावश्चक्षुः संयुक्तविशेषण

विशेषणतया गृह्यते इति । एवमन्यत्राप्यूह्यम् (मु० १ पृ० १२२ ) ॥

एवं विशेष्यताया नानाविधत्वम् पूर्वोक्तं तदुदाहरणादिकं च द्रष्टव्यम् //
 

अत्र समवायस्य प्रत्यक्षवर्णनं न्यायमतेन । वैशेषिकमते
 
तु
 
समवायो
 

तीन्द्रिय एवेति ज्ञेयम् ( त० कौ ० १ पृ० ९ ) (मु० १ पृ० १२२ ) ॥

अत्रेदं बोध्यम् । विशेषणतया विशेष्यतया च समवायाभावयोमह

इत्युक्तम् । तत्र विशेषणता द्विविधा। इन्द्रियविशेषणता इन्द्रियसंबद्ध
 

विशेषणता च । तत्रेन्द्रियविशेषणतया अयं शब्दसमवायवान् इति शब्द /
 
-