2023-10-20 19:02:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१४३
 
संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः

विशेषणविशेष्यभावश्चेति । तत्र चक्षुषा इह घटोस्ति इति घटोयम् इति

वा घटप्रत्यक्षजनने संयोगः संनिकर्ष उपयुज्यते । द्रव्यचाक्षुषस्पार्शन-

मानसेष्विन्द्रियसंयोग एव संनिकर्षः ( न्या० म० १ पृ० ७) (सि०

च० १ पृ० २२ ) । चक्षुरादेर्घटादिना संयोगसत्त्वादिति भावः ।

एवं मनसा संयोगेनात्मग्रहः अहमस्मि इति ( त० कौ० १ पृ० ८ ) ।

अत्रायं नियमः । आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन

( विषयेण ) । ततः संनिकृष्टेनेन्द्रियेण निर्विकल्पकप्रत्यक्षमुत्पद्यते ( Fo

भा० पृ० ६ ) ( प्र० प्र० ) । वटे रूपादिकमस्ति इति घटरूपादि-

प्रत्यक्ष संयुक्तसमवायः । द्रव्यसमवेतचाक्षुषरासनप्राणजस्पार्शन-

मानसेष्विन्द्रियसंयुक्तसमवाय एव संनिकर्षः (सि० च० १ पृ० २२ ) ।

चक्षुरादिसंयुक्ते घटे रूपादीनां समवायादिति भावः ( त० कौ० १

पृ० ९ ) । शब्देतरगुणाः कर्म द्रव्यगता जातिः संयुक्तसमवायेन गृह्यते

( न्या० म० १ पृ० ७ ) । घटगतरूपे रूपत्वाद्यस्ति इति रूपत्वादि-

सामान्य प्रत्यक्षे संयुक्त समवेतसमवायः । शब्देतरगुणगता कर्मगता च

जातिरित्यर्थ: ( न्या० म० १ पृ० ७ ) । अत्रायं नियमः येनेन्द्रियेण

यद्गृह्यते तेनेन्द्रियेण तद्वतं सामान्यम् तत्समवायः तदभावश्च गृह्यते

इत्यनुसंधेयः (त० कौ० १ पृ० १०) । द्रव्यसमवेतसमवेतस्य चाक्षुष-

रासनघ्राणजस्पार्शनमानसेष्विन्द्रियसंयुक्तसमवेतसमवाय एव संनिकर्षः ।

चक्षुरादिसंयुक्ते घटे समवेतं रूपादि । तत्र रूपत्वादेः समवायादिति

भाव: ( सि० च० १ पृ० २२) । श्रोत्रेण कर्णे ध्वनिः पतति इति

इह वीणाशब्दोस्ति इति वा शब्दसाक्षात्कारे समवायः । कर्णशष्कुल्य-

वच्छिन्नं नभः श्रोत्रम् । तत्र ध्वनिशब्दस्य समवायस्य सत्त्वादिति भावः

( न्या० म० १ पृ० ८ ) ( प्र० प्र० पृ० ४ ) ( त० कौ० १

पृ० ९ ) । इह शब्दे शब्दत्वगुणत्वादिकमस्ति इत्येवं श्रोत्रेण शब्द-

वादिसामान्यप्रत्यक्षे समवेतसमवायः । अत्र श्रोत्रसमवेते शब्दे शब्द-

त्वादे: समवायादिति भावः ( त० कौ० १५० ९) । समवायभव्यक्षे
 

 
y
 
D