2023-10-20 19:01:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१४२
 
न्यायकोशः ।
 
रसरूपस्पर्शशब्दाः इति ( गौ० ११ १२ १४ ) । एवं चेन्द्रियाणि षट्

(प्र० प्र० पृ० ११) (गौ० वृ० ११ ११२) (त० भा० पृ० २६ ) ।

केचित्तु इन्द्रियाणि दश ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च । तत्र ज्ञाने-

न्द्रियाणि घ्राणादीनि । कर्मेन्द्रियाणि तु वाक्पाणिपादपायूपस्थानि इत्याहु

( वाच० ) । ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि । वाक्
 

पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिणः ॥ वचनादानगतयो विसर्गानन्द-

संयुताः । कर्मेन्द्रियार्थाः संप्रोक्ताः इति ( शाः ति० ) । अन्धु लिङ्गम्
 

(राघवभट्टः ) । हस्तौ पादावुपस्थं च जिह्वा पायुस्तथैव च । कर्मे-

न्द्रियाणि पञ्चैव इति ( शङ्ख० ) ( वाच० ) । तत्र ज्ञानेन्द्रियाणां मध्ये
..

घ्राणरसनश्रोत्राणि न द्रव्यग्राहकाणि । अपि तु गुणमात्रग्राहकाणि ।

चक्षुस्त्वङ्मनांसि तु द्रव्यग्राहकाणि गुणग्राहकाण्यपि ( प्र० प्र० पृ० १२)

( त० कौ० १ पृ० १० ) । अत्र केचित्तु मनो नेन्द्रियम् इत्याहुः ।

वैशेषिकैः साधितं मनस इन्द्रियत्वं नैयायिका अप्यभ्युपगच्छन्ति

( प्र० प्र० पृ० २१ ) ( त० मा० पृ० ४२-४३ ) । तच्च शरीर-

संयोगे सत्येव साक्षात्प्रमितिसाधनम् इति ( ता० र० श्लो० २८) ।

 
<
इन्द्रियार्थसंनिकर्षः - >
प्रत्यक्षात्मक ज्ञान हेतुरिन्द्रियस्य विषयेण संबन्धः

( राम० १ पृ० १२८) । अत्रेदमवधेयम् । यदा इदं किंचिदिति

निर्विकल्पकं ज्ञानं जायते तदा तस्य ज्ञानस्येन्द्रियं करणम् । इन्द्रियार्थ-

संनिकर्षोवान्तरव्यापारः । निर्विकल्पकज्ञानं फलम् । यदा निर्विकल्पक-

ज्ञानानन्तरं सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणम् ।

निर्विकल्पकज्ञानमवान्तर व्यापारः । सविकल्पकज्ञानं फलम् इति ( त० मा०

पृ० ६) । विस्तरस्तु अन्यत्र ( वै० उ० ८।१।४-५ ) अनुसंधेयः ।
 

स चेन्द्रियार्थसंनिकर्षो द्विविधः । लौकिक: अलौकिकश्च । तत्र
 
लौकिको
 

लौकिक प्रत्यक्षे कारणम् (त० कौ० पृ० ८ ) षडिन्द्रियसहकारी इति ।

( प्र० प्र० पृ० ३ ) ( न्या० म० १ पृ० ७) । वक्ष्यमाणमलौकिक

संनिकर्षत्रयं तु षडिन्द्रिय सहकारीति संप्रदायविदः । मनस एव सहका-

रीति शूलपाणिमिश्राः ( त० कौ० १५० ९) । तत्र लौकिकः षड़िधः