This page has not been fully proofread.

१४२
 
न्यायकोशः ।
 
रसरूपस्पर्शशब्दाः इति ( गौ० ११ १२ १४ ) । एवं चेन्द्रियाणि षट्
(प्र० प्र० पृ० ११) (गौ० वृ० ११ ११२) (त० भा० पृ० २६ ) ।
केचित्तु इन्द्रियाणि दश ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च । तत्र ज्ञाने-
न्द्रियाणि घ्राणादीनि । कर्मेन्द्रियाणि तु वाक्पाणिपादपायूपस्थानि इत्याहु
( वाच० ) । ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि । वाक्
 
पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिणः ॥ वचनादानगतयो विसर्गानन्द-
संयुताः । कर्मेन्द्रियार्थाः संप्रोक्ताः इति ( शाः ति० ) । अन्धु लिङ्गम्
 
(राघवभट्टः ) । हस्तौ पादावुपस्थं च जिह्वा पायुस्तथैव च । कर्मे-
न्द्रियाणि पञ्चैव इति ( शङ्ख० ) ( वाच० ) । तत्र ज्ञानेन्द्रियाणां मध्ये
.. घ्राणरसनश्रोत्राणि न द्रव्यग्राहकाणि । अपि तु गुणमात्रग्राहकाणि ।
चक्षुस्त्वङ्मनांसि तु द्रव्यग्राहकाणि गुणग्राहकाण्यपि ( प्र० प्र० पृ० १२)
( त० कौ० १ पृ० १० ) । अत्र केचित्तु मनो नेन्द्रियम् इत्याहुः ।
• वैशेषिकैः साधितं मनस इन्द्रियत्वं नैयायिका अप्यभ्युपगच्छन्ति
( प्र० प्र० पृ० २१ ) ( त० मा० पृ० ४२-४३ ) । तच्च शरीर-
• संयोगे सत्येव साक्षात्प्रमितिसाधनम् इति ( ता० र० श्लो० २८) ।
इन्द्रियार्थसंनिकर्षः - प्रत्यक्षात्मक ज्ञान हेतुरिन्द्रियस्य विषयेण संबन्धः
( राम० १ पृ० १२८) । अत्रेदमवधेयम् । यदा इदं किंचिदिति
निर्विकल्पकं ज्ञानं जायते तदा तस्य ज्ञानस्येन्द्रियं करणम् । इन्द्रियार्थ-
• संनिकर्षोवान्तरव्यापारः । निर्विकल्पकज्ञानं फलम् । यदा निर्विकल्पक-
ज्ञानानन्तरं सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणम् ।
निर्विकल्पकज्ञानमवान्तर व्यापारः । सविकल्पकज्ञानं फलम् इति ( त० मा०
पृ० ६) । विस्तरस्तु अन्यत्र ( वै० उ० ८।१।४-५ ) अनुसंधेयः ।
 
स चेन्द्रियार्थसंनिकर्षो द्विविधः । लौकिक: अलौकिकश्च । तत्र
 
लौकिको
 
• लौकिक प्रत्यक्षे कारणम् (त० कौ० पृ० ८ ) षडिन्द्रियसहकारी इति ।
( प्र० प्र० पृ० ३ ) ( न्या० म० १ पृ० ७) । वक्ष्यमाणमलौकिक
संनिकर्षत्रयं तु षडिन्द्रिय सहकारीति संप्रदायविदः । मनस एव सहका-
रीति शूलपाणिमिश्राः ( त० कौ० १५० ९) । तत्र लौकिकः षड़िधः