This page has not been fully proofread.

न्यायकोशः ।
 
भिरुपकारं संपाद्य पाकेनौदनं भावयेत् (संपादयेत् ) इति भाव्याद्यन्वयेन ।
वाक्यार्थः संपद्यते (लौ० भा० टी० पृ० १० )।
इतिहासः— पुरावृत्तप्रकाशको ग्रन्थविशेषः । यथा महाभारतादिः (वाच०)।
-
तत्राम्नायते वाको वाक्येतिहासपुराणः पञ्चमो वेदानां वेदः (छान्दो० ) ।
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च
• पुराणानि खिलानि च ॥ ( मनु० ३ । २३२) इति । इतिहासलक्षणं
च धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तकथायुक्तमितिहास
 
१४०
 
प्रचक्षते ॥ इति ( वाच ० ) ।
 
इदम् – प्रत्यक्षबुद्धिविषयः ( दि० ४ पृ० १७९) (ग० शक्ति० ) ।
यथा अयम् उदयति विततोर्ध्वरश्मिजालः (माघ ० ) इदं किलाव्याज
मनोहरं वपुः ( शाकु० ) इत्यादाविदंपदार्थः । इदमर्थश्च लौकिकप्रत्यक्ष
विषयता विशिष्टम् (ग० शक्ति० टी० पृ० ११६ ) । चक्षुःसंनिकृष्टे
"व्यक्तिविशेषे अयं घटः इति प्रत्यक्षे घटस्येदमर्थता । अत्रेदं बोध्यम् । इदमः
- संनिकृष्टवाचित्वम् । तत्रोक्तम् अस्येति प्रत्यक्षादिसंनिधापितस्य जगत
• इदमा निर्देश: ( शारी० भा० ) इति । संनिकृष्टत्वं च बुद्धिमात्रेणापि ।
• तच्च ज्ञानलक्षणया प्रत्यासत्त्या स्मरणादिना च भवति । यथा कौमुदीय
विरच्यते इत्यत्र भाविन्यपि कौमुदी बुद्ध्या संनिधापितत्वेन इदमा
 
निर्दिश्यते ( वाच० )।
 
]
 
इन्द्रियम् – [ क ] स्वविषयग्रहणलक्षणानीन्द्रियाणि ( वात्स्या० १११
१२) । [ख शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियम् ( त० कौ० पृ
३ ) ( प्र० प्र० पृ० ११ ) । तच्च प्रत्यक्षप्रमाणमित्युच्यते ( त०
पृ० ८ ) ( त० सं० ) । अयमाशयः । यदा निर्विकल्पकरूपा
• फलं तदा इन्द्रिय करणम् । तद्यथा आत्मा मनसा संयुज्यते ।
 
को
 
मन
 
इन्द्रियेण । इन्द्रियमर्थेन । इन्द्रियाणां स्वसंबद्धवस्तुप्रकाशकारित्वम्
इति नियमात् । ततोर्थसंनिकृष्टेनेन्द्रियेण निर्विकल्पकज्ञानं जन्यते ।
तस्य ज्ञानस्येन्द्रियं करणम् छिदाया इव परशुः । इन्द्रियार्थसनिक
•वान्तर व्यापारः छिदाकरणस्य परशोरिव दारुसंयोगः । निर्विकल्पकं ज्ञा
 
-
 
प्रमा