2023-10-20 18:55:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१३८
 
न्यायकोशः ।
 
<इज्या>
देवतापूजनम् ( सर्वद० पृ० ११७ रामानु० ) ।

 
<
इतरबाधग्रहः>
साध्यतावच्छेदकव्याप्ययत्किं चिद्धर्मावच्छिन्नेतरसाध्यतावच्छेद-

कविशिष्टाभाववत्पक्षविषयकं ज्ञानम् । यथा पर्वतो वह्निमानित्यादौ

महानसीयेतरवह्रय भाववान्पर्वतः इति ज्ञानम् । तथा हि । साध्यतावच्छेद-

कमत्र वह्नित्वम् । तद्व्याप्यो यत्किंचिद्धर्मः महानसीयत्वम् । तदवच्छिनः

महानसीयवह्निः । तस्मादितर: ( भिन्नः ) यः साध्यतावच्छेदक विशिष्ट

अस्य प्रयोजनं हि यथा पर्वतो वह्निमान् इत्यादिस्थले वहिव्याप्यधूमवान्

चत्वरीयादिर्वह्निः । तदभाववान् पक्षः पवेतः । तद्विषयकं ज्ञानम् इति ।

पर्वतः इति परामर्शादपि महानसीयवह्निभिन्नवयभाववान् इतीतरबाध-

ग्रहबलात् महानसीयवह्नित्वा दिनानुमितिः पर्वतो महानसीयवह्निमान्
 

इति जायत इति ( त० प्र० ख० ४ ) ।
 

 
<
इतरबाधग्रहसहकृतानुमितिः - >
(अनुमितिः ) सामान्यधर्मावच्छिन्नस्य सा

ध्यत्वे विशेषधर्मावच्छिन्नेतरबाधग्रहसत्त्वे जायमाना विशेषधर्मावच्छिन्नवि-

धेयकानुमितिः । यथा पर्वते धूमेन शुद्धवह्नित्वावच्छिन्नस्य साधने पर्वतो

वह्निमानित्यादौ पर्वतो महानसीयवह्निमान् इत्यनुमितिः । अत्र च तादृश-

बाधग्रहकाले सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शादपि विशेषधर्मावच्छि
 

न्
नविधेयकानुमितिः स्वीक्रियत इति नैयायिकसिद्धान्तो ज्ञेयः ।
 

 
<
इतरेतर:- >
(द्वंद्वसमासः ) एकवचनान्यसुबाका समासः । यथा धवख

दिरौ छिन्धीत्यादा वितरेतरद्वंद्वः । अत्र हि धबखदिरावगतौ द्विवचनादिः

प्रमाणम् ( श० प्र० पृ० ६६ ) । अत्रेदं बोध्यम् । धवखदिराविति

स्वरूपद्वयप्रतीतेर्न लक्षणा शक्तिर्वेति नैयायिकसिद्धान्तः । मीमांसका

धवखदिरावित्यादावुत्तरपदे धवखदिरादिसाहित्याश्रये लक्षणामाहुः
 
। वैया-
 
। वैया-
१३:) ।
 

करणास्तु तादृशसाहित्याश्रये शक्तिमाहुः ( न्या० म० ४ ५०
पृ० १३:) ।
शाब्दिकाश्च मिलितानामन्वय इतरेतरः इति वदन्ति । 31

 
<
इतरेतरत्- >
अन्योन्यशब्दवदस्यार्थोनुसंधेयः ( ल० म० ) ।
इति -

 
<इति>
(अव्ययम् ) १ हेतु: । २ प्रकाशनम् । ३ निदर्शनम् / ४ प्रकारः /

१५ अनुकः । ६ समाप्तिः । ७ प्रकरणम् । ८ स्वरूपम् । ९
 

 
सांनि-
-
 
0