This page has not been fully proofread.

न्यायकोशः ।
 
१३७
 
भिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वम् ( ल० व० पृ० ३५ ) ।
अत्रेदमुक्तम् । आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः । कृतिजन्या
भवेच्चेष्टा चेष्टाजन्या भवेक्रिया ॥ इति । इच्छा चात्मधर्म इति नैयायिक-
सिद्धान्तः । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरभृतिहींधर्भी-
रित्येतत्सर्वं मन एव इति श्रुतेः स मनोधर्म इति सांख्या मायावादिन-
श्वाहुः । श्रुतौ कामपदेनेच्छोच्यते । इच्छा द्विविधा । फलविषयिणी
- तदुपायविषयिणी चेति । अत्र मुख्यं फलं सुखं दुःखाभावश्च । तत्र
फलेच्छां प्रति फलज्ञानमात्रं कारणम् । अत एव फलस्य स्वतः
पुरुषार्थत्वं संभवति इति बोध्यम् ( भा०प० श्लो० १४७ ) (मु०
गु० पृ० २२० - २२१ ) ( त० कौ० पृ० १८) । अत्रेदं रहस्यम् ।
सुखस्यैव चरमफलत्वेन सुखाद्यात्मक फलानन्तरं फलान्तराभावात् सुखे-
च्छाया नेष्टसाधनत्वज्ञानापेक्षा । अपि तु सुखज्ञानेनैव सुखेच्छोत्पद्यते
इति । उपायेच्छां प्रति त्विष्टसाधनताज्ञानं कारणम् ( भा०प० श्लो०
१४७ ) (मु० गु० पृ० २२१ ) ( त०] कौ० पृ० १८ ) । यथा
स्वर्गात्मकफलस्य उपायो यागः । तद्विषयकेच्छां प्रति यागो मम इष्टस्य
स्वर्गात्मकफलस्य साधनम् इति ज्ञानं कारणम् । इच्छां प्रति बलवद-
निष्टाननुबन्धित्वज्ञानमपि कारणं भवति । पुनरपि नित्यानित्यभेदेनेच्छा
द्विविधा । तत्र जीवेच्छा अनित्या । ईश्वरेच्छा तु नित्या सर्वे जगद्भूयात्
इति समूहालम्बनात्मिका चेति । मायावादिनस्तु व्योमादिवत्सा अनित्ये-
त्याहुः (वाच० ) । [ख] स्वार्थ परार्थं वा अप्राप्तप्रार्थना । सा चात्म-
मनसोः संयोगात्सुखाद्यपेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः।
काम: अभिलाषः राग: संकल्पः कारुण्यम् वैराग्यम् उपधा भावः
 

 
0
 
-
 
(इत्येवमादय इच्छाभेदाः । मैथुनेच्छा कामः । अभ्यवहरणेच्छा अभि-
लाषः । पुनः पुनर्विषयानुरञ्जनेच्छा रागः । अनासन्नक्रियेच्छा संकल्पः ।
 
• स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयत्यागेच्छा
वैराग्यम् । परवञ्चनेच्छा उपधा । अन्तर्निंगूढेच्छा भावः । चिकीर्षा-
जिही त्यादि क्रियाभेदादिच्छाभेदा भवन्ति ( प्रशस्त ० २ पृ० ३३ ) ।
 
१८ न्या० को०