2023-10-20 18:41:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१३५
 
मादायैव गतिः इति ( न्या० म० ४ पृ० २४ ) । [घ ] अव्यवधाने-

नान्वयप्रतियोग्यनुयोग्युपस्थिति: (चि० ४ ) ( तर्का० ४ पृ० १३ ) ।

[ङ ] यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोरव्यवधानेनोपस्थितिः

(मु० ४ पृ० १८५ ) । [ च ] वृत्त्या ( शक्तिलक्षणान्यतरसंबन्धेन )

पदजन्यपदार्थोपस्थितिः । सा च स्वरूपसती शाब्दबोधहेतुः न तु ज्ञाता

इति बोध्यम् ( न्या० म० ४ पृ० २४ ) ( म० प्र० ४ पृ० ५७ ) ।

२ प्रत्यक्षजनकः संनिकर्षः । यथा आसत्तिराश्रयाणां तु सामान्यज्ञान-

मिष्यते ( भा०प० लो० ६५ ) इत्यादौ ।
 

 
<
आसनम्
>
स्थिरसुखमासनम् । तच्च पद्मासनभद्रासनवीरासनस्वस्तिकासन-

दण्डकासनसोपाश्रयपर्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थान मेदादशविधम्

( सर्व० सं० पृ० ३७६ पातञ्ज० ) ।
 

 
<
आसुरः>
( विवाहभेदः ) आसुरो द्रविणादानात् ( याज्ञवल्क्य ० अ० १
 
-
 

लो० ६१ ) ।
 

 
<
आसेधः - >
राजाज्ञया अवरोध: ( मिताक्षरा अ० २ श्लो० ५ ) ।
 
-
 

 
<
आस्तिकः>
१ [ क ] परलोकाद्यस्तित्ववादी । यथा सत्यवतीसुतो व्यासः ।

[ ख ] नरकभीरुरास्तिकशब्दवाच्यः ( त० प्र० ख० ४ पृ० १०५ ) ।

आस्तिकास्तु वेदान्तिमीमांसकादयो बहवः नास्तिकेभ्यो विभिन्नमतिका-

श्चेति बोध्यम् । २ जरत्कारुमुनिपुत्र ऋषिविशेषः ।
 

 
<
आस्रवः>
[ क ]
 
औदारिकादिकायादिचलनद्वारेणात्मनश्चलनं योगपद-

वेदनीयम् ( सर्व० सं० पृ० ७३ आई० ) । [ ख ] आस्रवः

कर्मणां बन्धः ( सर्व० सं० पृ० ३६ आई० ) । आस्रवो भवहेतुः

स्यात्संवरो मोक्षकारणम् इति ( सर्व० सं० पृ० ८० आई० ) ।
 

 
<आहार्यम्>
१ ( प्रत्यक्षम् ) [ क ]
स्वविरोधिधर्मधर्मितावच्छेदककं
 
-
 
आहार्यम् – १ ( प्रत्यक्षम् ) [ क ]
-

स्वप्रकारकं ज्ञानम् । यथा निर्वह्निः पर्वतो वह्निमान् इति ज्ञानम् ( ग०

सामा० २ पृ० १९ ) । तथा हि स्वं वह्निः । तस्य विरोधी धर्मः

बहघभावः । स एव धर्मितावच्छेदको यस्मिन् ज्ञाने तत् । किंच स्वं